भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

इममेवार्थमन्योऽपि मन्त्र आह —

ओं यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥

भाष्यभागः - यस्मिन्सर्वाणि भूतानि यस्मिन् काले यथोक्त आत्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनात् आत्मा एव अभूत् आत्मा एव संवृत्तः परमार्थवस्तु विजानतः, तत्र तस्मिन्काले तत्रात्मनि वा, को मोहः कः शोकः । शोकश्च मोहश्च कामकर्मबीजम् अजानतो भवति, न तु आत्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोकः इति शोकमोहयोः अविद्याकार्ययोः आक्षेपेण-असम्भवप्रकाशनात् सकारणस्य संसारस्य अत्यन्तमेव उच्छेदः प्रदर्शितो भवति ॥

© 2021 KKP APP. All rights reserved | Design by SMDS