शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
यत एवम् अतः —
ओं विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११ ॥
भाष्यभागः - विद्यां च अविद्यां
च देवताज्ञानं कर्म चेत्यर्थः ।
यस्तत् एतदुभयं सह एकेन
पुरुषेण अनुष्ठेयं वेद
तस्यैवं समुच्चयकारिण
एकैकपुरुषार्थसम्बन्धः
क्रमेण स्यात् इत्युच्यते— अविद्यया
कर्मणा अग्निहोत्रादिना मृत्युम्
स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यम्
तदुभयं तीर्त्वा अतिक्रम्य
विद्यया देवताज्ञानेन
अमृतं देवतात्मभावम् अश्नुते प्राप्नोति ।
तत् हि अमृतमुच्यते, यद्देवतात्मगमनम् ॥
© 2021 KKP APP. All rights reserved | Design by SMDS