शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
ओं वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७ ॥
भाष्यभागः - अथेदानीं मम मरिष्यतः
वायुः प्राणः अध्यात्मपरिच्छेदं
हित्वा अधिदैवतात्मानं
सर्वात्मकम् अनिलम् अमृतं
सूत्रात्मानं प्रतिपद्यताम्
इति वाक्यशेषः । लिङ्गं च इदं ज्ञानकर्मसंस्कृतम्
उत्क्रामतु इति द्रष्टव्यम्
मार्गयाचनसामर्थ्यात् । अथ इदं शरीरम्
अग्नौ हुतं भस्मान्तं
भस्मावशेषं भूयात् । ओम् इति यथोपासनम्
ओम्प्रतीकात्मकत्वात् सत्यात्मकम्
अग्न्याख्यं ब्रह्म अभेदेन उच्यते ।
हे क्रतो ! सङ्कल्पात्मक !
स्मर यन्मम स्मर्तव्यं
तस्य कालोऽयं प्रत्युपस्थितः
अतः स्मर एतावन्तं कालं
भावितं कृतम् अग्ने स्मर
यन्मया बाल्यप्रभृति
अनुष्ठितं कर्म तच्च स्मर ।
क्रतो स्मर कृतं स्मर
इति पुनर्वचनम् आदरार्थम् ॥
© 2021 KKP APP. All rights reserved | Design by SMDS