भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ श्रीमच्छङ्करभगवतः कृतौ
शुक्लयजुर्वेदीय-ईशावास्योपनिषद्भाष्ये

उपोद्घातः

ओम् नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः

‘ईशा वास्यम्’ इत्यादयो मन्त्राः कर्मसु अविनियुक्ताः, तेषाम् अकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं च आत्मनः शुद्धत्व-अपापविद्धत्व-एकत्व-नित्यत्व-अशरीरत्व-सर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मसु अविनियोगः । न हि एवंलक्षणम् आत्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं वा कर्तृभोक्तृरूपं वा, येन कर्मशेषता स्यात्; सर्वासाम् उपनिषदाम् आत्मयाथात्म्यनिरूपणेनैव उपक्षयात्, गीतानां मोक्षधर्माणां च एवम्परत्वात् । तस्मात् आत्मनः अनेकत्व-कर्तृत्वभोक्तृत्वादि च अशुद्धत्व-पापविद्धत्वादि च उपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना च द्विजातिरहं न काणत्वकुब्जत्वादि अनधिकारप्रयोजकधर्मवान् इति आत्मानं मन्यते सोऽधिक्रियते कर्मसु इति हि अधिकारविदो वदन्ति ॥

तस्मादेते मन्त्राः आत्मनो याथात्म्यप्रकाशनेन आत्मविषयं स्वाभाविकमज्ञानम् निवर्तयन्तः शोकमोहादि-संसारधर्मविच्छित्तिसाधनम् आत्मैकत्वादिविज्ञानम् उत्पादयन्तीति । एवम् उक्त-अधिकारि-अभिधेयसम्बन्धप्रयोजनान् मन्त्रान् सङ्क्षेपतो व्याख्यास्यामः ॥

© 2021 KKP APP. All rights reserved | Design by SMDS