शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
न मन्त्राणां जामितास्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह —
ओं तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥
भाष्यभागः - तत् आत्मतत्त्वं यत्प्रकृतम् एजति चलति तदेव च नैजति स्वतो नैव चलति स्वतः अचलमेव सत् चलति इव इत्यर्थः॥
किञ्च, तद्दूरे वर्षकोटिशतैरपि
अविदुषाम् अप्राप्यत्वात् दूरे इव ।
तदु अन्तिके समीपे अत्यन्तमेव
विदुषाम् , आत्मत्वात् न केवलं दूरे
अन्तिके च । तत् अन्तः अभ्यन्तरे
अस्य सर्वस्य, ‘य आत्मा सर्वान्तरः’
इति श्रुतेः, अस्य सर्वस्य जगतो
नामरूपक्रियात्मकस्य । तत् उ सर्वस्य
अस्य बाह्यतः ; व्यापित्वात्
आकाशवत् निरतिशयसूक्ष्मत्वात्
अन्तः ; ‘प्रज्ञानघन एव’(बृ. उ. ४ । ५ । १३)
इति शासनान्निरन्तरं च॥
© 2021 KKP APP. All rights reserved | Design by SMDS