भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

योऽयम् अतीतैर्मन्त्रैः उक्तः आत्मा, स स्वेन रूपेण किंलक्षणः इत्याह अयं मन्त्रः —

ओं स पर्यगाच्छुक्रमकायमव्रण—मस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूः याथातथ्यतोऽर्थान्
व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥

भाष्यभागः - स पर्यगात् , सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान् आकाशवत् व्यापी इत्यर्थः । शुक्रं शुभ्रं ज्योतिष्मत् दीप्तिमानित्यर्थः । अकायम् अशरीरं लिङ्गशरीरवर्जित इत्यर्थः । अव्रणम् अक्षतम् । अस्नाविरम् स्नावाः सिरा यस्मिन् न विद्यन्ते इति अस्नाविरम् । अव्रणम् अस्नाविरम् इत्येताभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलम् अविद्या-मलरहितम् इति कारणशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मादि-पापवर्जितम् । शुक्रम् इत्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि स पर्यगात् इत्युपक्रम्य कविर्मनीषी इत्यादिना पुंलिङ्गत्वेन उपसंहारात् । कविः क्रान्तदर्शी सर्वदृक् ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । मनीषी मनसः ईषिता, सर्वज्ञः ईश्वरः इत्यर्थः । परिभूः सर्वेषां परि उपरि भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त-ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथातथाभावो याथातथ्यं तस्मात् यथाभूतकर्मफलसाधनतः अर्थान् कर्तव्यपदार्थान् व्यदधात् विहितवान्, यथानुरूपं व्यभजत् इत्यर्थः । शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः इत्यर्थः ॥

अत्र आद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठा उक्ता प्रथमो वेदार्थः ‘ईशावास्यमिदं सर्वम्. . . मा गृधः कस्य स्विद्धनम्’ (ई. उ. १) इति । अज्ञानां जिजीविषूणां ज्ञाननिष्ठासम्भवे ‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’ (ई. उ. २) इति कर्मनिष्ठा उक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोः विभागो मन्त्रद्वयप्रदर्शितयोः बृहदारण्यकेऽपि दर्शितः — ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) इत्यादिना अज्ञस्य कामिनः कर्माणि इति । ‘मन एवास्यात्मा वाग्जाया’
(बृ. उ. १ । ४ । १७), (बृ. उ. १ । ५ । २) इत्यादिवचनात् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितम् अवगम्यते । तथा च तत्फलं सप्तान्नसर्गः तेषु आत्मभावेन आत्मस्वरूपावस्थानम् । जायादि-एषणात्रयसंन्यासेन च आत्मविदां कर्मनिष्ठाप्रातिकूल्येन आत्मस्वरूपनिष्ठा एव दर्शिता — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इत्यादिना ॥

ये तु ज्ञाननिष्ठाः संन्यासिनः तेभ्यः ‘असुर्या नाम ते’
(ई. उ. ३) इत्यादिना अविद्वन्निन्दाद्वारेण आत्मनो याथात्म्यम् ‘स पर्यगात्’ (ई. उ. ८) इत्येतदन्तैः मन्त्रैः उपदिष्टम् । ते हि अत्र अधिकृताः न कामिनः इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदि— ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्’
(श्वे. उ. ६ । २१) इत्यादि विभज्य उक्तम् । ये तु कामिनः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवः, तेभ्य इदमुच्यते— ‘ अन्धं तमः’
(ई. उ. ९) इत्यादि ॥

कथं पुनरेवमवगम्यते, न तु सर्वेषाम् इति ? उच्यते— अकामिनः साध्यसाधनभेदोपमर्देन ‘यस्मिन्सर्वाणि भूतानि
आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’
(ई. उ. ७) इति यत् आत्मैकत्वविज्ञानम् तत् न केनचित्कर्मणा ज्ञानान्तरेण वा हि अमूढः समुच्चिचीषति । इह तु समुच्चिचीषया अविद्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः सम्भवति न्यायतः शास्त्रतो वा तदिह उच्यते । तद्दैवं वित्तं देवताविषयं ज्ञानं कर्मसम्बन्धित्वेन उपन्यस्तं न परमात्मज्ञानम्, ‘विद्यया देवलोकः’
(बृ. उ. १ । ५ । १६) इति पृथक्फलश्रवणात् । तयोः ज्ञानकर्मणोः इह एकैकानुष्ठाननिन्दा समुच्चिचीषया, न निन्दापरा एव एकैकस्य, पृथक्फलश्रवणात्— ‘विद्यया तदारोहन्ति’ ‘विद्यया देवलोकः’
(बृ. उ. १ । ५ । १६) ‘न तत्र दक्षिणा यान्ति’ ‘कर्मणा पितृलोकः’
(बृ. उ. १ । ५ । १६) इति । न हि शास्त्रविहितं किञ्चित् अकर्तव्यताम् इयात् । तत्र -

© 2021 KKP APP. All rights reserved | Design by SMDS