शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
यत एवम्, अतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोः उक्तः एकैकपुरुषार्थत्वाच्च इत्याह—
ओं सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥ १४ ॥
भाष्यभागः - सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेन उच्यते ‘विनाशः’ इति । तेन तदुपासनेन अनैश्वर्यम् अधर्म-कामादिदोषजातं च मृत्युं तीर्त्वा, हिरण्यगर्भोपासनेन हि अणिमादिप्राप्तिः फलम् तेन अनैश्वर्यादिमृत्युम् अतीत्य असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयलक्षणम् अश्नुते । ‘सम्भूतिं च विनाशं च’ इत्यत्र अवर्णलोपेन निर्देशो द्रष्टव्यः, प्रकृतिलयफलश्रुत्यनुरोधात् ॥
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् ; एतावती संसारगतिः । अतः परं पूर्वोक्तम् ‘आत्मैवाभूद्विजानतः’ इति सर्वात्मभाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थः अत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणम् उपयुक्तम् । निवृत्तिलक्षणस्य प्रकाशने अत ऊर्ध्वं बृहदारण्यकम् उपयुक्तम् । तत्र निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेत् यः विद्यया सह अपरब्रह्मविषयया तदुक्तम् — ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. १) इति तत्र सोऽधिकारी केन मार्गेण अमृतत्वमश्नुते इति उच्यते —
‘तद्यत्तत्सत्यमसौ स आदित्यो
य एष एतस्मिन्मण्डले
पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’
(बृ. उ. ५ । ५ । २) एतदुभयं सत्यं
ब्रह्म उपासीनः यथोक्तकर्मकृच्च यः
सः अन्तकाले प्राप्ते
सत्यात्मानम् आत्मनः प्राप्तिद्वारं याचते—
© 2021 KKP APP. All rights reserved | Design by SMDS