भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

ओं पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।
समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि ।
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥

भाष्यभागः - हे पूषन् ! जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे ! तथा सर्वस्य संयमनाद्यमः हे यम ! तथा रश्मीनां प्राणानां रसानां च स्वीकरणात् सूर्यः हे सूर्य ! प्रजापतेः अपत्यं प्राजापत्यः हे प्राजापत्य ! व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर तेजः तावकं ज्योतिः । यत् ते तव रूपं कल्याणतमम् अत्यन्तशोभनम् तत् ते तव आत्मनः प्रसादात् पश्यामि । किञ्च, अहं न तु त्वां भृत्यवत् याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात्, पूर्णं वानेन प्राणबुद्ध्यात्मना जगत्समस्तम् इति पुरुषः; पुरि शयनाद्वा पुरुषः । सोऽहम् अस्मि भवामि ॥

© 2021 KKP APP. All rights reserved | Design by SMDS