शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
एवम् आत्मविदः पुत्राद्येषणात्रयसंन्यासेन आत्मज्ञाननिष्ठतया
आत्मा रक्षितव्यः इत्येष वेदार्थः । अथ इतरस्य अनात्मज्ञतया
आत्मग्रहण-अशक्तस्य इदमुपदिशति मन्त्रः॥ —
ओं कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
भाष्यभागः - कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि
जिजीविषेत् जीवितुम् इच्छेत् शतं शतसङ्ख्याकाः समाः
संवत्सरान् । तावद्धि पुरुषस्य परमायुर्निरूपितम् ।
तथा च प्राप्तानुवादेन यज्जिजीविषेत्
शतं वर्षाणि तत् कुर्वन्नेव कर्माणि इत्येतद्विधीयते ।
एवम् एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः
एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारात्
अन्यथा प्रकारान्तरं नास्ति, येन प्रकारेण अशुभं कर्म
न लिप्यते ; कर्मणा न लिप्यसे इत्यर्थः ।
अतः शास्त्रविहितानि कर्माणि अग्निहोत्रादीनि कुर्वन्नेव
जिजीविषेत् ॥
कथं पुनः इदम् अवगम्यते — पूर्वेण मन्त्रेण
संन्यासिनो ज्ञाननिष्ठा उक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठा
इति ? उच्यते— ज्ञानकर्मणोः विरोधं पर्वतवदकम्प्यं
यथोक्तं न स्मरसि किम् ?
इहापि उक्तम् — यो हि जिजीविषेत् “स कर्माणि कुर्वन्नेव”
इति । “ईशा वास्यमिदं सर्वम्”, “तेन त्यक्तेन भुञ्जीथाः”
“मा गृधः कस्य स्विद्धनम्” इति च ।
“न जीविते मरणे वा गृधिं कुर्वीत आरण्यमियात्
इति च पदम्; ततो न पुनरेयात्”( ? )
इति च संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति ।
‘इमौ द्वावेव पन्थानौ अनुनिष्क्रान्ततरौ भवतः;
क्रियापथश्चैव पुरस्तात् संन्यासश्च उत्तरेण
निवृत्तिमर्गेण एषणात्रयस्य त्यागः” ( ? ) ;
तयोः संन्यासपथ एवातिरेचयति — “न्यास एव अत्यरेचयत्”
(तै. नारा. ७८) इति तैत्तिरीयके । “द्वाविमावथ पन्थानौ
यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभाषितः” (मो. ध. २४१ । ६)
इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण
भगवता । विभागं च अनयोः प्रदर्शयिष्यामः ॥
© 2021 KKP APP. All rights reserved | Design by SMDS