शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
ओम् नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
ओं पूर्णमदः पूर्णमिदं
पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते ॥
ओं शान्तिः शान्तिः शान्तिः
ओम् ईशा वास्यमिदं सर्वं यत्किंच जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥
शाङ्करभाष्यम् - ईशा ईष्टे इति ईट् , तेन ईशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम् । किम् ? इदं सर्वं यत्किंच यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं परमात्मना । यथा चन्दन-अगर्वादेः उदकादिसम्बन्धजक्लेदादिजम् औपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेन आच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं पृथिव्याम्, जगत्यामित्युपलक्षणार्थत्वात् सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवम् ईश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यासे एवाधिकारः, न कर्मसु ॥
तेन त्यक्तेन त्यागेन इत्यर्थः । न हि त्यक्तो मृतः पुत्रो भृत्यो वा आत्मसम्बन्धिताभावात् आत्मानं पालयति । अतः त्यागेन इत्ययमेवार्थः । भुञ्जीथाः पालयेथाः ॥
एवं त्यक्तैषणस्त्वं मा गृधः गृधिम् आकाङ्क्षां मा कार्षीः धनविषयाम् । कस्य स्वित् कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीः इत्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थः । न कस्यचिद्धनमस्ति, यद्गृध्येत । आत्मैवेदं सर्वमिति ईश्वरभावनया सर्वं त्यक्तम् । अत आत्मन एव इदं सर्वम् , आत्मैव च सर्वम् । अतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥
© 2021 KKP APP. All rights reserved | Design by SMDS