शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
ओं हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥
भाष्यभागः - हिरण्मयेन पात्रेण हिरण्मयमिव हिरण्मयम्
ज्योतिर्मयम् इत्येतत्, तेन पात्रेणेव
अपिधानभूतेन सत्यस्य
आदित्यमण्डलस्थस्य ब्रह्मणः
अपिहितम् आच्छादितं मुखं
द्वारम्; तत् त्वं हे पूषन्!
अपावृणु अपसारय सत्यधर्माय
तव सत्यस्य उपासनात् सत्यं
धर्मो यस्य मम सोऽहं
सत्यधर्मा तस्मै मह्यम्;
अथवा, यथाभूतस्य धर्मस्या
अनुष्ठात्रे, दृष्टये तव
सत्यात्मनः उपलब्धये ॥
© 2021 KKP APP. All rights reserved | Design by SMDS