शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
अथ इदानीम् अविद्वन्निन्दार्थः अयं मन्त्रः आरभ्यते —
ओम् असुर्या नाम ते लोका अन्धेन तमसा वृताः।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥
भाष्यभागः - असुर्याः परमात्मभावम् अद्वयम् अपेक्ष्य
देवादयः अपि असुराः । तेषां च स्वभूता
लोका असुर्याः नाम । नामशब्दः अनर्थको निपातः ।
ते लोकाः कर्मफलानि लोक्यन्ते
दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेन
अज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान्
प्रेत्य त्यक्त्वा इमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् ।
ये के च आत्महनः आत्मानं घ्नन्तीति आत्महनः ।
के ते जनाः ? ये अविद्वांसः । कथं ते आत्मानं नित्यं
हिंसन्ति ? अविद्यादोषेण विद्यमानस्य आत्मनः
तिरस्करणात् । विद्यमानस्य आत्मनो यत्कार्यं फलम्
अजर-अमरत्वादि-संवेदनलक्षणम्
तत् हतस्येव तिरोभूतं भवतीति प्राकृताः
अविद्वांसो जनाः आत्महनः इत्युच्यन्ते ।
तेन हि आत्महननदोषेण संसरन्ति ते ॥
© 2021 KKP APP. All rights reserved | Design by SMDS