भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

अधुना उभयोरुपासनयोः समुच्चयकारणम् अवयवफलभेदम् आह—

ओम् अन्यदेवाहुः सम्भवात् अन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥

भाष्यभागः - अन्यदेव पृथगेव आहुः फलं सम्भवात् सम्भूतेः कार्यब्रह्मोपासनात् अणिमाद्यैश्वर्यलक्षणम् आख्यातवन्त इत्यर्थः । तथा च अन्यदाहुः असम्भवात् असम्भूतेः अव्याकृतात् अव्याकृतोपासनात् यदुक्तम् ‘अन्धं तमः प्रविशन्ति’ (ई. उ. ९) इति, प्रकृतिलय इति च पौराणिकैः उच्यते । इति एवं शुश्रुम धीराणां वचनं ये नः तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्तः इत्यर्थः ॥

© 2021 KKP APP. All rights reserved | Design by SMDS