शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
तत्र अवान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणम् आह । अन्यथा फलवदफलवतोः संनिहितयोः अङ्गाङ्गितया जामितैव स्यादिति—
ओम् अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥
भाष्यभागः - अन्यत् पृथगेव विद्यया
क्रियते फलमिति आहुः
वदन्ति, अन्यदाहुः अविद्यया
कर्मणा क्रियते फलमिति ।
तथोक्तम्— ‘कर्मणा पितृलोकः
विद्यया देवलोकः’(बृ. उ. १ । ५ । १६) इति ।
इति एवं शुश्रुम श्रुतवन्तो
वयं धीराणां धीमतां वचनम् ।
ये आचार्या नः अस्मभ्यं तत् कर्म
च ज्ञानं च विचचक्षिरे
व्याख्यातवन्तः, तेषामयम्
आगमः पारम्पर्यागतः इत्यर्थः ॥
© 2021 KKP APP. All rights reserved | Design by SMDS