भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

यस्य आत्मनो हननात् अविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांसो मुच्यन्ते अनात्महनः तत्कीदृशम् आत्मतत्त्वम् इति ? उच्यते —

ओम् अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥

भाष्यभागः - अनेजत् न एजत् । ‘एजृ कम्पने कम्पनं चलनं स्व-अवस्थ-अप्रच्युतिः तद्वर्जितम्, सर्वदा एकरूपम् इत्यर्थः । तच्च एकं सर्वभूतेषु । मनसः सङ्कल्पादिलक्षणात् जवीयो जववत्तरम् । कथं विरुद्धम् उच्यते— ध्रुवं निश्चलमिदम् मनसो जवीयः इति च ? नैष दोषः निरुपाधि-उपाधिमत्त्वेन उपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेण उच्यते— अनेजदेकम् इति । मनसः अन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्य उपाधेः अनुवर्तनात् । इह देहस्थस्य मनसो ब्रह्मलोकादि-दूरस्थसङ्कल्पनं क्षणमात्राद्भवति इत्यतः मनसो जविष्ठत्वं लोकप्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इव आत्मचैतन्याभासो गृह्यते । अतः मनसो जवीयः इत्याह । नैनद्देवाः, द्योतनाद्देवाः चक्षुरादीनि इन्द्रियाणि, एनत् प्रकृतम् आत्मतत्त्वं न आप्नुवन् न प्राप्तवन्तः । तेभ्यो मनो जवीयः । मनोव्यापारव्यवहितत्वात् आभासमात्रमपि आत्मनः नैव देवानां विषयीभवति; यस्मात् जवनात् मनसः अपि पूर्वम् अर्षत् पूर्वमेव गतम् व्योमवद्व्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेण अविक्रियमेव सत्, उपाधिकृताः सर्वाः संसारविक्रियाः अनुभवति इव अविवेकिनां मूढानाम् अनेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह— तत् धावतः द्रुतं गच्छतः अन्यान् आत्मविलक्षणान् मनोवागिन्द्रियप्रभृतीन् अत्येति अतीत्य गच्छति
इव । इममर्थं स्वयमेव दर्शयति — तिष्ठत् इति स्वयम् अविक्रियमेव सत् इत्यर्थः ॥

तस्मिन् आत्मतत्त्वे सति नित्यचैतन्यस्वभावे मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृत् क्रियात्मकः, यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ सः मातरिश्वा, अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्नि-आदित्य-पर्जन्यादीनां ज्वलन-दहन-प्रकाश-अभिवर्षणादिलक्षणानि, दधाति विभजतीत्यर्थः, धारयतीति वा; ‘भीषास्माद्वातः पवते’ इत्यादिश्रुतिभ्यः । सर्वा हि कार्यकरणविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्ति इत्यर्थः ॥

© 2023 KKP APP. All rights reserved | Design by SMDS