भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते —

ओम् अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥

भाष्यभागः - अन्धं तमः प्रविशन्ति ये असम्भूतिम्, सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः तस्याः अन्या असम्भूतिः प्रकृतिः कारणम् अव्याकृताख्यम् ताम् असम्भूतिम् अव्याकृताख्यां प्रकृतिं कारणम् अविद्यां कामकर्मबीजभूताम् अदर्शनात्मिकाम् उपासते ये ते तदनुरूपमेव अन्धं तमः अदर्शनात्मकं प्रविशन्ति । ततः तस्मादपि भूयो बहुतरमिव तमः ते प्रविशन्ति ये उ सम्भूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः ॥

© 2023 KKP APP. All rights reserved | Design by SMDS