भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

ओम् अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥

भाष्यभागः - अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति । के ? ये अविद्याम्, विद्यायाः अन्या अविद्या कर्म इत्यर्थः कर्मणो विद्याविरोधित्वात् ताम् अविद्याम् अग्निहोत्रादिलक्षणाम् एव केवलाम् उपासते तत्पराः सन्तः अनुतिष्ठन्ति इत्यभिप्रायः । ततः तस्मादन्धात्मकात् तमसः भूय इव बहुतरमेव ते तमः प्रविशन्ति । के ? कर्म हित्वा ये उ ये तु विद्यायामेव देवताज्ञाने एव रताः अभिरताः ॥

© 2023 KKP APP. All rights reserved | Design by SMDS