शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
पुनः अन्येन मन्त्रेण मार्गं याचते —
ओम् अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥
भाष्यभागः - हे अग्ने ! नय गमय सुपथा शोभनेन मार्गेण । सुपथा इति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन; अतो याचे त्वां पुनः पुनः गमनागमनवर्जितेन शोभनेन पथा नय । राये धनाय, कर्मफलभोगाय इत्यर्थः । अस्मान् यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव ! वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् । किञ्च युयोधि वियोजय विनाशय अस्मत् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किन्तु वयम् इदानीं ते न शक्नुमः परिचर्यां कर्तुम्; भूयिष्ठां बहुतरां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ॥
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) ‘विनाशेन मृत्युं तीर्त्वा असम्भूत्यामृतमश्नुते’ (ई. उ. १४) इति श्रुत्वा केचित् संशयं कुर्वन्ति । अतः तन्निर्धारणार्थं सङ्क्षेपतो विचारणां करिष्यामः ॥
तत्र तावत् किंनिमित्तः
संशयः इति, उच्यते— विद्याशब्देन
मुख्या परमात्मविद्या एव कस्मात्
न गृह्यते, अमृतत्वं च ?
ननु उक्तायाः परमात्मविद्यायाः
कर्मणश्च विरोधात् समुच्चय-अनुपपत्तिः।
सत्यम् । विरोधस्तु न अवगम्यते
विरोध-अविरोधयोः शास्त्रप्रमाणकत्वात्;
यथा अविद्यानुष्ठानं विद्योपासनं
च शास्त्रप्रमाणकम्
तथा तद्विरोध-अविरोधावपि ।
यथा च ‘न हिंस्यात्सर्वा भूतानि’
इति शास्त्रात् अवगतं पुनः
शास्त्रेणैव बाध्यते ‘अध्वरे पशुं हिंस्यात्’
इति, एवं विद्याविद्ययोः
अपि स्यात्; विद्याकर्मणोश्च समुच्चयः ॥
न; ‘दूरमेते विपरीते विषूची
अविद्या या च विद्येति ज्ञाता’
(क. उ. १ । २ । ४) इति श्रुतेः।
‘विद्यां चाविद्यां च’
इति वचनात् अविरोधः इति चेत्
न; हेतु-स्वरूप-फलविरोधात् ।
विद्याविद्याविरोध-अविरोधयोः
विकल्प्-असम्भवात् समुच्चयविधानात्
अविरोध एव इति चेत्, न;
सहसम्भव-अनुपपत्तेः ।
क्रमेण एकाश्रये स्यातां विद्याविद्ये
इति चेत्, न; विद्योत्पत्तौ
तदाश्रये अविद्यानुपपत्तेः;
न हि अग्निः उष्णः प्रकाशश्च
इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये
तदुत्पन्नम्, तस्मिन्नेव आश्रये शीतः
अग्निः अप्रकाशो वा इति अविद्यायाः
उत्पत्तिः । नापि संशयः अज्ञानं वा
‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः’
(ई. उ. ७) इति शोकमोहादि-असम्भवश्रुतेः ।
अविद्या-असम्भवात् तदुपादानस्य
कर्मणः अपि अनुपपत्तिम् अवोचाम ।
‘अमृतमश्नुते’ इति आपेक्षिकम् अमृतम्;
विद्याशब्देन परमात्मविद्याग्रहणे ‘हिरण्मयेन’
(ई. उ. १५) इत्यादिना द्वारमार्गयाचनम्
अनुपपन्नं स्यात् । तस्मात्
यथाव्याख्यातः एव मन्त्राणाम्
अर्थः इति उपरम्यते ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ ईशावास्योपनिषद्भाष्यम् ॥
ओं पूर्णमदः पूर्णमिदं
पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते ॥
ओं शान्तिः शान्तिः शान्तिः
© 2023 KKP APP. All rights reserved | Design by SMDS