भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमाम्साभाष्ये
उपोद्घातः

ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः

युष्मदस्मत्प्रत्ययगोचरयोः विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः इतरेतरभाव- अनुपपत्तौ सिद्धायाम्, तद्धर्माणामपि सुतराम् इतरेतरभाव- अनुपपत्तिः इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां च अध्यासः; तद्विपर्ययेण विषयिणः तद्धर्माणां च विषये अध्यासः मिथ्या इति भवितुं युक्तम् ॥

तथापि अन्योन्यस्मिन् अन्योन्यात्मकताम् अन्योन्यधर्मांश्च अध्यस्य इतरेतर-अविवेकेन अत्यन्तविविक्तयोः धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकः अयं लोकव्यवहारः ॥

आह — कोऽयम् अध्यासो नाम इति। उच्यते — स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्र अन्यधर्माध्यासः इति वदन्ति। केचित्तु यत्र यदध्यासः तद्विवेक- अग्रहनिबन्धनो भ्रम इति । अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनाम् आचक्षते । सर्वथापि तु अन्यस्य अन्यधर्मावभासतां न व्यभिचरति । तथा च लोके अनुभवः — शुक्तिका हि रजतवत् अवभासते, एकश्चन्द्रः सद्वितीयवत् इति ॥

कथं पुनः प्रत्यगात्मन्यविषये अध्यासो
विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्यय-अपेतस्य च प्रत्यगात्मनः अविषयत्वं ब्रवीषि । उच्यते — न तावत् अयम् एकान्तेन अविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः ; न चायमस्ति
नियमः — पुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यम् इति; अप्रत्यक्षेऽपि हि आकाशे बालाः तलमलिनतादि अध्यस्यन्ति ; एवम् अविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः ॥

तमेतम् एवंलक्षणमध्यासं पण्डिता अविद्या इति मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्याम् आहुः । तत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न सम्बध्यते । तमेतम् अविद्याख्यम् आत्मानात्मनोः इतरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहाराः लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि च शास्त्राणि विधि-प्रतिषेध-मोक्षपराणि । कथं पुनः अविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च इति, उच्यते — देहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्व-अनुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः । न हि इन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति । न च अधिष्ठानमन्तरेण इन्द्रियाणां व्यापारः सम्भवति । न च अनध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते । न च एतस्मिन् सर्वस्मिन्नसति असङ्गस्य आत्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मात् अविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च इति । पश्वादिभिश्च अविशेषात् । यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले च प्रवर्तन्ते ; यथा दण्डोद्यतकरं पुरुषम् अभिमुखमुपलभ्य ‘मां हन्तुमयमिच्छति’ इति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान् बलवतः उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते । अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां च प्रसिद्धः अविवेकपूर्वकः प्रत्यक्षादिव्यवहारः । तत्सामान्यदर्शनात् व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारः तत्कालः समानः इति निश्चीयते ॥

शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धम् अधिक्रियते, तथापि न वेदान्तवेद्यम् अशनायाद्यतीतम् अपेतब्रह्मक्षत्रादिभेदम् असंसार्यात्मतत्त्वम् अधिकारे अपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्च । प्राक् च तथाभूत-आत्मविज्ञानात् प्रवर्तमानं शास्त्रम् अविद्यावद्विषयत्वं नातिवर्तते । तथा हि — ‘ब्राह्मणो यजेत’ इत्यादीनि शास्त्राण् आत्मनि वर्ण-आश्रम-वयोऽवस्थादि-विशेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिन् तद्बुद्धिः इत्यवोचाम । तद्यथा — पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वा इति बाह्यधर्मान् आत्मन्यध्यस्यति; तथा देहधर्मान् ‘स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि च’ इति ; तथा इन्द्रियधर्मान् — ‘मूकः काणः क्लीबः बधिरः अन्धः अहम्’ इति ; तथा अन्तःकरणधर्मान् काम-सङ्कल्प- विचिकित्सा-अध्यवसायादीन् । एवम् अहंप्रत्ययिनम् अशेषस्वप्रचारसाक्षिणि प्रत्यगात्मनि अध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण अन्तःकरणादिषु अध्यस्यति । एवम् अयमनादिः अनन्तः नैसर्गिकः अध्यासः मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्य अनर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा च अयमर्थः सर्वेषां वेदान्तानाम्, तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः॥

© 2023 KKP APP. All rights reserved | Design by SMDS