भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीये साधनाध्याये प्रथमः पादः

१. तदन्तरप्रतिपत्त्यधिकरणम्

तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥१॥

त्र्यात्मकत्वात्तु भूयस्त्वात् ॥२॥

प्राणगतेश्च ॥३॥

अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥४॥

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥५॥

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥६॥

भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥७॥

२. कृतात्ययाधिकरणम्

कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥

चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥९॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥१०॥

सुकृतदुष्कृते एवेति तु बादरिः ॥११॥

३. अनिष्टादिकार्यधिकरणम्

अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥१३॥

स्मरन्ति च ॥१४॥

अपि च सप्त ॥१५॥

तत्रापि च तद्व्यापारादविरोधः ॥१६॥

विद्याकर्मणोरिति तु प्रकृतत्वात् ॥१७॥

न तृतीये तथोपलब्धेः ॥१८॥

स्मर्यतेऽपि च लोके ॥१९॥

दर्शनाच्च ॥२०॥

तृतीयशब्दावरोधः संशोकजस्य ॥२१॥

४. साभाव्यापत्त्यधिकरणम्

साभाव्यापत्तिरुपपत्तेः ॥२२॥

५. नातिचिराधिकरणम्

नातिचिरेण विशेषात् ॥२३॥

६. अन्याधिष्ठिताधिकरणम्

अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥२४॥

अशुद्धमिति चेन्न शब्दात् ॥२५॥

रेतःसिग्योगोऽथ ॥२६॥

योनेः शरीरम् ॥२७॥

इति श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीयाध्याये प्रथमः पादः

अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीयाध्याये द्वितीयः पादः

१. सन्ध्याधिकरणम्

सन्ध्ये सृष्टिराह हि ॥१॥

निर्मातारं चैके पुत्रादयश्च ॥२॥

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥३॥

सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥४॥

पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥

देहयोगाद्वा सोऽपि ॥६॥

२. तदभावाधिकरणम्

तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥७॥

अतः प्रबोधोऽस्मात् ॥८॥

३. कर्मानुस्मृतिशब्दविध्यधिकरणम्

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥९॥

४. मुग्धाधिकरणम्

मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥१०॥

५. उभयलिङ्गाधिकरणम्

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥११॥

न भे

दादिति चेन्न प्रत्येकमतद्वचनात् ॥१२॥

अपि चैवमेके ॥१३॥

अरूपवदेव हि तत्प्रधानत्वात् ॥१४॥

प्रकाशवच्चावैयर्थ्यात् ॥१५॥

आह च तन्मात्रम् ॥१६॥

दर्शयति चाथो अपि स्मर्यते ॥१७॥

अत एव चोपमा सूर्यकादिवत् ॥१८॥

अम्बुवदग्रहणात्तु न तथात्वम् ॥१९॥

वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥२०॥

दर्शनाच्च ॥२१॥

६. प्रकृतैतावत्त्वाधिकरणम्

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥

तदव्यक्तमाह हि ॥२३॥

अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥२४॥

प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥२५॥

अतोऽनन्तेन तथा हि लिङ्गम् ॥२६॥

उभयव्यपदेशात्त्वहिकुण्डलवत् ॥२७॥

प्रकाशाश्रयवद्वा तेजस्त्वात् ॥२८॥

पूर्ववद्वा ॥२९॥

प्रतिषेधाच्च ॥३०॥

७. पराधिकरणम्

परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥३१॥

सामान्यात्तु ॥३२॥

बुद्ध्यर्थः पादवत् ॥३३॥

स्थानविशेषात्प्रकाशादिवत् ॥३४॥

उपपत्तेश्च ॥३५॥

तथाऽ

न्यप्रतिषेधात् ॥३६॥

अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥३७॥

८. फलाधिकरणम्

फलमत उपपत्तेः ॥३८॥

श्रुतत्वाच्च ॥३९॥

धर्मं जैमिनिरत एव ॥४०॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥४१॥

इति श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीयाध्याये द्वितीयः पादः

अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीयाध्याये तृतीयः पादः

१. सर्ववेदान्तप्रत्ययाधिकरणम्

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥

भेदान्नेति चेन्नैकस्यामपि ॥२॥

स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥३॥

दर्शयति च ॥४॥

२. उपसंहाराधिकरणम्

उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥५॥

३. अन्यथात्वाधिकरणम्

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥

न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥७॥

संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥८॥

४. व्याप्त्यधिकरणम्

व्याप्तेश्च समञ्जसम् ॥९॥

५. सर्वाभेदाधिकरणम्

सर्वाभेदादन्यत्रेमे ॥१०॥

६. आनन्दाद्यधिकरणम्

आनन्दादयः प्रधानस्य ॥११॥

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥१२॥

इतरे त्वर्थसामान्यात् ॥१३॥

७. आध्यानाधिकरणम्

आध्यानाय प्रयोजनाभावात् ॥१४॥

आत्मशब्दाच्च ॥१५॥

८. आत्मगृहीत्यधिकरणम्

आत्मगृहीतिरितरवदुत्तरात् ॥१६॥

अन्वयादिति चेत्स्यादवधारणात् ॥१७॥

९. कार्याख्यानाधिकरणम्

कार्याख्यानादपूर्वम् ॥१८॥

१०. समानाधिकरणम्

समान एवं चाभेदात् ॥१९॥

११. सम्बन्धाधिकरणम्

सम्बन्धादेवमन्यत्रापि ॥२०॥

न वा विशेषात् ॥२१॥

दर्शयति च ॥२२॥

१२. सम्भृत्यधिकरणम्

सम्भृतिद्युव्याप्त्यपि चातः ॥२३॥

१३. पुरुषविद्याधिकरणम्

पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥

१४. वेधाद्यधिकरणम्

वेधाद्यर्थभेदात् ॥ २५ ॥

१५. हान्यधिकरणम्

हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥२६॥

१६. साम्परायाधिकरणम्

साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥२७॥

छन्दत उभयाविरोधात् ॥२८॥

१७. गतेरर्थवत्त्वाधिकरणम्

गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥२९॥

उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥३०॥

१८. अनियमाधिकरणम्

अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥३१॥

१९. यावदधिकाराधिकरणम्

यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥

२०. अक्षरध्यधिकरणम्

अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३३॥

२१. इयदधिकरणम्

इयदामननात् ॥३४॥

२२. अन्तरत्वाधिकरणम्

अन्तरा भूतग्रामवत्स्वात्मनः ॥३५॥

अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥३६॥

२३. व्यतिहाराधिकरणम्

व्यतिहारो विशिंषन्ति हीतरवत् ॥३७॥

२४. सत्याद्यधिकरणम्

सैव हि सत्यादयः ॥३८॥

२५. कामाद्यधिकरणम्

कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥

२६. आदराधिकरणम्

आदरादलोपः ॥४०॥

उपस्थितेऽतस्तद्वचनात् ॥४१॥

२७. तन्निर्धारणाधिकरणम्

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥४२॥

२८. प्रदानाधिकरणम्

प्रदानवदेव तदुक्तम् ॥ ४३ ॥

२९. लिङ्गभूयस्त्वाधिकरणम्

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥

पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥४५॥

अतिदेशाच्च ॥४६॥

विद्यैव तु निर्धारणात् ॥४७॥

दर्शनाच्च ॥४८॥

श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥४९॥

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥५०॥

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥५१॥

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥५२॥

३०. ऐकात्म्याधिकरणम्

एक आत्मनः शरीरे भावात् ॥५३॥

व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥५४॥

३१. अङ्गावबद्धाधिकरणम्

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥

मन्त्रादिवद्वाऽविरोधः ॥५६॥

३२. भूमज्यायस्त्वाधिकरणम्

भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥५७॥

३३. शब्दादिभेदाधिकरणम्

नाना शब्दादिभेदात् ॥५८॥

३४. विकल्पाधिकरणम्

विकल्पोऽविशिष्टफलत्वात् ॥५९॥

३५. काम्याधिकरणम्

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६०॥

३६. यथाश्रयभावाधिकरणम्

अङ्गेषु यथाश्रयभावः ॥६१॥

शिष्टेश्च ॥६२॥

समाहारात् ॥६३॥

गुणसाधारण्यश्रुतेश्च ॥६४॥

न वा तत्सहभावाश्रुतेः ॥ ६५॥

दर्शनाच्च ॥६६॥

इति श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीयाध्याये तृतीयः पादः

अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीयाध्याये चतुर्थः पादः

१. पुरुषार्थाधिकरणम्

पुरुषार्थोऽतः शब्दादिति बादरायणः ॥१॥

शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥२॥

आचारदर्शनात् ॥३॥

तच्छ्रुतेः ॥४॥

समन्वारम्भणात् ॥५॥

तद्वतो विधानात् ॥६॥

नियमाच्च ॥७॥

अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥८॥

तुल्यं तु दर्शनम् ॥९॥

असार्वत्रिकी ॥१०॥

विभागः शतवत् ॥११॥

अध्ययनमात्रवतः ॥१२॥

नाविशेषात् ॥१३॥

स्तुतयेऽनुमतिर्वा ॥१४॥

कामकारेण चैके ॥१५॥

उपमर्दं च ॥१६॥

ऊर्ध्वरेतःसु च शब्दे हि ॥१७॥

२. परामर्शाधिकरणम्

परामर्शं जैमिनिरचोदना चापवदति हि ॥१८॥

अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥१९॥

विधिर्वा धारणवत् ॥२०॥

३. स्तुतिमात्राधिकरणम्

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥२१॥

भावशब्दाच्च ॥२२॥

४. पारिप्लवाधिकरणम्

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥

तथा चैकवाक्यतोपबन्धात् ॥२४॥

५. आग्नीन्धनाद्यधिकरणम्

अत एव चाग्नीन्धनाद्यनपेक्षा ॥२५॥

६. सर्वापेक्षाधिकरणम्

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥२६॥

शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥२७॥

७. सर्वान्नानुमत्यधिकरणम्

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥२८॥

अबाधाच्च ॥२९॥

अपि च स्मर्यते ॥३०॥

शब्दश्चातोऽकामकारे ॥३१॥

८. आश्रमकर्माधिकरणम्

विहितत्वाच्चाश्रमकर्मापि ॥३२॥

सहकारित्वेन च ॥३३॥

सर्वथापि त एवोभयलिङ्गात् ॥३४॥

अनभिभवं च दर्शयति ॥३५॥

९. विधुराधिकरणम्

अन्तरा चापि तु तद्दृष्टेः ॥३६॥

अपि च स्मर्यते ॥३७॥

विशेषानुग्रहश्च ॥३८॥

अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥३९॥

१०. तद्भूताधिकरणम्

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥४०॥

११. आधिकारिकाधिकरणम्

न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥

उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥४२॥

१२. बहिरधिकरणम्

बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥

१३. स्वाम्यधिकरणम्

स्वामिनः फलश्रुतेरित्यात्रेयः ॥४४॥

आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥४५॥

श्रुतेश्च ॥४६॥

१४. सहकार्यन्तरविध्यधिकरणम्

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४७॥

कृत्स्नभावात्तु गृहिणोपसंहारः ॥४८॥

मौनवदितरेषामप्युपदेशात् ॥४९॥

१५. अनाविष्काराधिकरणम्

अनाविष्कुर्वन्नन्वयात् ॥५०॥

१६. ऐहिकाधिकरणम्

ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५१॥

१७. मुक्तिफलाधिकरणम्

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥५२॥

इति श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीयाध्याये चतुर्थः पादः
इति श्रीबादरायणीय-वेदान्तसूत्रपाठे तृतीयः साधनाध्यायः

© 2023 KKP APP. All rights reserved | Design by SMDS