अथ समन्वयाधिकरणम्
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता ‘आम्नायस्य क्रियार्थत्वात् आनर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदान्तानाम् आनर्थक्यम् , अक्रियार्थत्वात् ; कर्तृ-देवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् , उपासनादिक्रियान्तरविधानार्थत्वं वा । न हि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति ; प्रत्यक्षादिविषयत्वात् परिनिष्ठितवस्तुनः, तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावात् । अत एव ‘सोऽरोदीत्’ इत्येवमादीनाम् आनर्थक्यं मा भूदिति ‘विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः’ (जै. सू. १ । २ । ७) इति स्तावकत्वेन अर्थवत्त्वम् उक्तम् । मन्त्राणां च ‘इषे त्वा’ इत्यादीनां क्रिया-तत्साधनाभिधायित्वेन कर्मसमवायित्वम् उक्तम् । अतो न क्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेण अर्थवत्ता दृष्टा उपपन्ना वा । न च परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वात् विधेः । तस्मात् कर्मापेक्षित-कर्तृ-देवतादिस्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् । अथ प्रकरणान्तरभयात् न एतदभ्युपगम्यते, तथापि स्ववाक्यगत-उपासनादिकर्मपरत्वम् । तस्मात् न ब्रह्मणः शास्त्रयोनित्वम् इति प्राप्ते, उच्यते —
ओं तत्तु समन्वयात् ॥४॥
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । तद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादेव अवगम्यते । कथम् ? समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येण एतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि । ‘सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) इत्यादीनि । न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वये अवगम्यमाने अर्थान्तरकल्पना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् ॥
न च तेषां कर्तृ-देवतादिस्वरूप-प्रतिपादनपरता अवसीयते, ‘तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिक्रियाकारकफलनिराकरणश्रुतेः । न च परिनिष्ठितवस्तुस्वरूपत्वे अपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेण अनवगम्यमानत्वात् । यत्तु हेयोपादेयरहितत्वात् उपदेशानर्थक्यमिति, नैष दोषः ; हेयोपादेयशून्य-ब्रह्मात्मता-अवगमादेव सर्वक्लेशप्रहाणात् पुरुषार्थसिद्धेः । देवतादिप्रतिपादनस्य तु स्ववाक्यगत-उपासनार्थत्वे अपि न कश्चिद्विरोधः । न तु तथा ब्रह्मणः उपासनाविधिशेषत्वं सम्भवति, एकत्वे हेयोपादेयशून्यतया क्रियाकारकादि-द्वैतविज्ञान-उपमर्दोपपत्तेः । न हि एकत्वविज्ञानेन उन्मथितस्य द्वैतविज्ञानस्य पुनः सम्भवोऽस्ति येन उपासनाविधिशेषत्वं ब्रह्मणः प्रतिपाद्येत । यद्यपि अन्यत्र वेदवाक्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टम् , तथापि आत्मविज्ञानस्य फलपर्यन्तत्वात् न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् । न च अनुमानगम्यं शास्त्रप्रामाण्यम् , येन अन्यत्र दृष्टं निदर्शनमपेक्ष्येत । तस्मात् सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम् ॥
अत्र अपरे प्रत्यवतिष्ठन्ते — यद्यपि शास्त्रप्रमाणकं ब्रह्म, तथापि प्रतिपत्तिविधिविषयतया एव शास्त्रेण ब्रह्म समर्प्यते ; यथा यूपाहवनीयादीनि अलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते, तद्वत् । कुत एतत् ? प्रवृत्तिनिवृत्तिप्रयोजनपरत्वात् शास्त्रस्य । तथा हि शास्त्रतात्पर्यविदाम् अनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनं नाम’ इति ; ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्’ ‘तस्य ज्ञानमुपदेशः’ (जै. सू. १ । १ । ५) ‘तद्भूतानां क्रियार्थेन समाम्नायः’ (जै. सू. १ । १ । २५) ‘आम्नायस्य क्रियार्थत्वात् आनर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति च । अतः पुरुषं क्वचित् विषयविशेषे प्रवर्तयत् कुतश्चिद्विषयविशेषात् निवर्तयच्च अर्थवत् शास्त्रम् । तच्छेषतया च अन्यदुपयुक्तम् । तत्सामान्यात् वेदान्तानामपि तथैव अर्थवत्त्वं स्यात् । सति च विधिपरत्वे, यथा स्वर्गादिकामस्य अग्निहोत्रादिसाधनं विधीयते, एवम् अमृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् ॥
ननु इह जिज्ञास्यवैलक्षण्यम् उक्तम् — कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति ; तत्र धर्मज्ञानफलात् अनुष्ठानापेक्षात् विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति । नार्हत्येवं भवितुम् , कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् । ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) ‘य आत्मापहतपाप्मा ... सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) ‘आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिषु विधानेषु सत्सु, ‘कोऽसौ आत्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः — नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्ध-बुद्ध-मुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः । तदुपासनाच्च शास्त्रदृष्टः अदृष्टो मोक्षः फलं भविष्यति इति ॥
कर्तव्यविध्यननुप्रवेशे तु वस्तुमात्रकथने हानोपादान-असम्भवात् ‘सप्तद्वीपा वसुमती’ ‘राजासौ गच्छति’ इत्यादिवाक्यवत् वेदान्तवाक्यानाम् आनर्थक्यमेव स्यात् । ननु वस्तुमात्रकथनेऽपि ‘रज्जुरियम् , नायं सर्पः’ इत्यादौ भ्रान्तिजनित-भीतिनिवर्तनेन अर्थवत्त्वं दृष्टम् ; तथा इहापि असंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेन अर्थवत्त्वं स्यात् । स्यादेतदेवम् , यदि रज्जुस्वरूपश्रवणमात्रेणेव सर्पभ्रान्तिः, संसारित्वभ्रान्तिः ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत ; न तु निवर्तते ; श्रुतब्रह्मणोऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात् , ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति च श्रवणोत्तरकालयोः मनननिदिध्यासनयोः विधिदर्शनात् । तस्मात् प्रतिपत्तिविधिविषयतया एव शास्त्रप्रमाणकं ब्रह्म अभ्युपगन्तव्यम् इति ॥
अत्राभिधीयते — न ; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् । शारीरं वाचिकं मानसं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम् , यद्विषया जिज्ञासा ‘अथातो धर्मजिज्ञासा’ (जै. सू. १ । १ । १) इति सूत्रिता । अधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वात् जिज्ञास्यः, परिहाराय । तयोः चोदनालक्षणयोः अर्थानर्थयोः धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेव उपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे । मनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यम् अनुश्रूयते । ततश्च तद्धेतोः धर्मस्यापि तारतम्यं गम्यते । धर्मतारतम्यात् अधिकारितारतम्यम् । प्रसिद्धं च अर्थित्वसामर्थ्यादिकृतम् अधिकारितारतम्यम् । तथा च यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषात्, उत्तरेण पथा गमनम् , केवलैः इष्टा-पूर्त-दत्तसाधनैः धूमादिक्रमेण दक्षिणेन पथा गमनम्, तत्रापि सुखतारतम्यम्, तत्साधनतारतम्यं च शास्त्रात् ‘यावत्सम्पातमुषित्वा’ (छा. उ. ५ । १० । ५) इत्यस्मात् गम्यते । तथा मनुष्यादिषु नारकस्थावरान्तेषु सुखलवः चोदनालक्षणधर्मसाध्य एव इति गम्यते तारतम्येन वर्तमानः । तथा ऊर्ध्वगतेषु अधोगतेषु च देहवत्सु दुःखतारतम्यदर्शनात् तद्धेतोः अधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां च तारतम्यं गम्यते । एवम् अविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यम् अनित्यं संसाररूपं श्रुति-स्मृति-न्यायप्रसिद्धम् । तथा च श्रुतिः ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति यथावर्णितं संसाररूपम् अनुवदति । ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति प्रियाप्रियस्पर्शनप्रतिषेधात् चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्य अशरीरत्वस्य प्रतिषिध्यत इति गम्यते । धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येत । अशरीरत्वमेव धर्मकार्यम् इति चेत् , न ; तस्य स्वाभाविकत्वात् — ‘अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ (क. उ. १ । २ । २२) ‘अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिश्रुतिभ्यः । अत एव अनुष्ठेयकर्मफलविलक्षणं मोक्षाख्यम् अशरीरत्वं नित्यम् इति सिद्धम् ॥
तत्र किञ्चित्परिणामिनित्यं यस्मिन् विक्रियमाणेऽपि तदेव इदम् इति बुद्धिः न विहन्यते ; यथा पृथिव्यादि जगन्नित्यत्ववादिनाम् , यथा वा साङ्ख्यानां गुणाः । इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् , यत्र धर्माधर्मौ सह कार्येण कालत्रयं च नोपावर्तेते; तदेतत् अशरीरत्वं मोक्षाख्यम् — ‘अन्यत्र धर्मादन्यत्राधर्मात् अन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च’ (क. उ. १ । २ । १४) इत्यादिश्रुतिभ्यः । अतः तद्ब्रह्म, यस्य इयं जिज्ञासा प्रस्तुता । तद्यदि कर्तव्यशेषत्वेन उपदिश्येत, तेन च कर्तव्येन साध्यश्चेत् मोक्षः अभ्युपगम्येत, अनित्य एव स्यात् । तत्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेषु अनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत । नित्यश्च मोक्षः सर्वैः मोक्षवादिभिः अभ्युपगम्यते । अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः ॥
अपि च ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) ‘आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) ‘तदात्मानमेव अवेत् अहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०) ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवमाद्याः श्रुतयः ब्रह्मविद्यानन्तरमेव मोक्षं दर्शयन्त्यः मध्ये कार्यान्तरं वारयन्ति । तथा ‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति ब्रह्मदर्शनसर्वात्मभावयोः मध्ये कर्तव्यान्तरवारणाय उदाहार्यम् — यथा ‘तिष्ठन्गायति’ इति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते ॥
‘त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८) ‘श्रुतं ह्येव मे भगवद्दृशेभ्यः तरति शोकमात्मविदिति ; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेव आत्मज्ञानस्य फलं दर्शयन्ति । तथा च आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम् — ‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ (न्या. सू. १ । १ । २) इति । मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानात् भवति ॥
न चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम् — यथा ‘अनन्तं वै मनः अनन्ता विश्वेदेवाः अनन्तमेव स तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति । न च अध्यासरूपम् — यथा ‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) ‘आदित्यो ब्रह्म इत्यादेशः’ (छा. उ. ३ । १९ । १) इति च मन-आदित्यादिषु ब्रह्मदृष्ट्यध्यासः । नापि विशिष्टक्रियायोगनिमित्तम् ‘वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) ‘प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत् । नापि आज्यावेक्षणादिकर्मवत् कर्माङ्गसंस्काररूपम् । सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञाने अभ्युपगम्यमाने, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत । ‘भिद्यते हृदयग्रन्थिः च्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन् अविद्यानिवृत्तिफलश्रवणान् उपरुध्येरन् । ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे न सामञ्जस्येन उपपद्येरन् । तस्मात् न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् ॥
अतः न पुरुषव्यापारतन्त्रा ब्रह्मविद्या । किं तर्हि ? प्रत्यक्षादि-प्रमाणविषय-वस्तुज्ञानवत् वस्तुतन्त्रा एव । एवंभूतस्य ब्रह्मणः तज्ज्ञानस्य च न कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् । न च विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः — ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति विदिक्रियाकर्मत्वप्रतिषेधात् , ‘येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति च । तथा उपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति — ‘यद्वाचानभ्युदितं येन वागभ्युद्यते’ इति अविषयत्वं ब्रह्मणः उपन्यस्य, ‘तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’ (के. उ. १ । ५) इति । अविषयत्वे ब्रह्मणः शास्त्रयोनित्व-अनुपपत्तिरिति चेत्, न; अविद्याकल्पितभेदनिवृत्तिपरत्वात् शास्त्रस्य । न हि शास्त्रम् इदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषति । किं तर्हि ? प्रत्यगात्मत्वेन अविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्य-वेदितृ-वेदनादिभेदम् अपनयति । तथा च शास्त्रम् — ‘यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) ‘न दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) ‘न विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति चैवमादि । अतः अविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्त-आत्मस्वरूपसमर्पणात् न मोक्षस्य अनित्यत्वदोषः ॥
यस्य तु उत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षते इति युक्तम् । तथा विकार्यत्वे च । तयोः पक्षयोः मोक्षस्य ध्रुवम् अनित्यत्वम् । न हि दध्यादि विकार्यम्, उत्पाद्यं वा घटादि, नित्यं दृष्टं लोके । न च आप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सति अनाप्यत्वात् ; स्वरूपव्यतिरिक्तत्वे अपि ब्रह्मणो न आप्यत्वम् , सर्वगतत्वेन नित्याप्तस्वरूपत्वात् सर्वेण ब्रह्मण आकाशस्य इव ॥
नापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेत । संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् , दोषापनयनेन वा । न तावत् गुणाधानेन सम्भवति, अनाधेय-अतिशयब्रह्मस्वरूपत्वात् मोक्षस्य । नापि दोषापनयनेन, नित्यशुद्ध-ब्रह्मस्वरूपत्वात् मक्षस्य । स्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रियया आत्मनि संस्क्रियमाणे अभिव्यज्यते — यथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् , न ; क्रियाश्रयत्व-अनुपपत्तेः आत्मनः । यदाश्रया हि क्रिया, तम् अविकुर्वती नैव आत्मानं लभते । यदि आत्मा क्रियया विक्रियेत, अनित्यत्वम् आत्मनः प्रसज्येत । ‘अविकार्योऽयमुच्यते’(भ. गी. २ । २५) इति चैवमादीनि वाक्यानि बाध्येरन् । तच्च अनिष्टम् । तस्मात् न स्वाश्रया क्रिया आत्मनः सम्भवति । अन्याश्रयायास्तु क्रियायाः अविषयत्वात् न तया आत्मा संस्क्रियते । ननु देहाश्रयया स्नान-आचमन-यज्ञोपवीतधारणादिकया क्रियया देही संस्क्रियमाणो दृष्टः, न ; देहादिसंहतस्यैव अविद्यागृहीतस्य आत्मनः संस्क्रियमाणत्वात् । प्रत्यक्षं हि स्नानाचमनादेः देहसमवायित्वम् । तया देहाश्रयया तत्संहत एव कश्चित् अविद्यया आत्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम् । यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘अहम् अरोगः’ इति यत्र बुद्धिः उत्पद्यते — एवं स्नानाचमन-यज्ञोपवीतधारणादिकया ‘अहं शुद्धः संस्कृतः’ इति यत्र बुद्धिरुत्पद्यते, स संस्क्रियते । स च देहेन संहत एव । तेनैव हि अहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते । तत्फलं च स एव अश्नाति, ‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णात् — ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति च । तथा ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति, ‘स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम्’ (ई. उ. ८) इति, च — एतौ मन्त्रौ अनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः । ब्रह्मभावश्च मोक्षः । तस्मात् न संस्कार्योऽपि मोक्षः ॥
अतोऽन्यत् मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं केनचिद्दर्शयितुम् । तस्मात् ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्यापि अनुप्रवेशः इह नोपपद्यते ॥
ननु ज्ञानं नाम मानसी क्रिया, न ; वैलक्षण्यात् । क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षा एव चोद्यते, पुरुषचित्तव्यापाराधीना च, यथा — ‘यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा ध्यायेद्वषट्करिष्यन्’ इति, ‘सन्ध्यां मनसा ध्यायेत्’ (ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषु । ध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण कर्तुम् अकर्तुम् अन्यथा वा कर्तुं शक्यम् , पुरुषतन्त्रत्वात् । ज्ञानं तु प्रमाणजन्यम् । प्रमाणं च यथाभूतवस्तुविषयम् । अतो ज्ञानं कर्तुम् अकर्तुम् अन्यथा वा कर्तुम् अशक्यम् । केवलं वस्तुतन्त्रमेव तत् ; न चोदनातन्त्रम् , नापि पुरुषतन्त्रम् ; तस्मात् मानसत्वे अपि ज्ञानस्य महद्वैलक्षण्यम् । यथा च ‘पुरुषो वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) ‘योषा वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) इत्यत्र योषित्पुरुषयोः अग्निबुद्धिः मानसी भवति ; केवलचोदनाजन्यत्वात् क्रिया एव सा पुरुषतन्त्रा च । या तु प्रसिद्धे अग्नौ अग्निबुद्धिः, न सा चोदनातन्त्रा ; नापि पुरुषतन्त्रा । किं तर्हि ? प्रत्यक्षविषय-वस्तुतन्त्रा एव इति ज्ञानमेवैतत् ; न क्रिया — एवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम् । तत्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम् । तद्विषये लिङादयः श्रूयमाणा अपि अनियोज्यविषयत्वात् कुण्ठीभवन्ति उपलादिषु प्रयुक्त-क्षुरतैक्ष्ण्यादिवत् , अहेय-अनुपादेयवस्तुविषयत्वात् ॥
किमर्थानि तर्हि ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानि इति ब्रूमः । यो हि बहिर्मुखः प्रवर्तते पुरुषः ‘इष्टं मे भूयात् अनिष्टं मा भूत्’ इति, न च तत्र आत्यन्तिकं पुरुषार्थं लभते, तम् आत्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात् कार्यकरणसङ्घातप्रवृत्तिगोचरात् विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्ति ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादीनि ; तस्य आत्मान्वेषणाय प्रवृत्तस्य अहेयम् अनुपादेयं च आत्मतत्त्वम् उपदिश्यते — ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ... केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिभिः ॥
यदपि अकर्तव्यप्रधानम् आत्मज्ञानं हानाय उपादानाय वा न भवतीति, तत्तथैवेत्यभ्युपगम्यते । अलङ्कारो ह्ययमस्माकम् — यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता च इति । तथा च श्रुतिः — ‘आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृ. उ. ४ । ४ । १२) इति, ‘एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५ । २०) इति च स्मृतिः । तस्मात् न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम् ॥
यदपि केचिदाहुः — प्रवृत्तिनिवृत्तिविधि-तच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति, तन्न ; औपनिषदस्य पुरुषस्य अनन्यशेषत्वात् । योऽसौ उपनिषत्स्वेव अधिगतः पुरुषः असंसारी ब्रह्मस्वरूपः उत्पाद्यादि-चतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थः अनन्यशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम् ; ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यात्मशब्दात् आत्मनश्च प्रत्याख्यातुमशक्यत्वात् , य एव निराकर्ता तस्यैव आत्मत्वात् । ननु आत्मा अहंप्रत्ययविषयत्वात् उपनिषत्स्वेव विज्ञायत इति अनुपपन्नम्; न, तत्साक्षित्वेन प्रत्युक्तत्वात् । न हि अहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः समः एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचित् अधिगतः सर्वस्य आत्मा । अतः स न केनचित् प्रत्याख्यातुं शक्यः, विधिशेषत्वं वा नेतुम् — आत्मत्वादेव च सर्वेषाम् — न हेयः नापि उपादेयः । सर्वं हि विनश्यत् विकारजातं, पुरुषान्तं विनश्यति ; पुरुषो हि विनाशहेत्वभावात् अविनाशी ; विक्रिया-हेत्वभावाच्च कूटस्थनित्यः ; अत एव नित्यशुद्ध-बुद्ध-मुक्तस्वभावः ; तस्मात् ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इति च औपनिषदत्वविशेषणं पुरुषस्य उपनिषत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यते । अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम् ॥
यदपि शास्त्रतात्पर्यविदाम् अनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वात् विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम् । अपि च ‘आम्नायस्य क्रियार्थत्वात् आनर्थक्यमतदर्थानाम्’ इत्येतत् एकान्तेन अभ्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गः । प्रवृत्ति-निवृत्ति-विधि-तच्छेषव्यतिरेकेण भूतं चेद्वस्तु उपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशति इति को हेतुः ? न हि भूतम् उपदिश्यमानं क्रिया भवति । अक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात् क्रियार्थ एव भूतोपदेशः इति चेत् , नैष दोषः ; क्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्तिमद् वस्तु उपदिष्टमेव ; क्रियार्थत्वं तु प्रयोजनं तस्य ; न च एतावता वस्तु अनुपदिष्टं भवति । यदि नाम उपदिष्टं किं तव तेन स्यादिति, उच्यते — अनवगत-आत्मवस्तूपदेशश्च तथैव भवितुमर्हति ; तदवगत्या मिथ्याज्ञानस्य संसारहेतोः निवृत्तिः प्रयोजनं क्रियते इति अविशिष्टम् अर्थवत्त्वं क्रियासाधनवस्तूपदेशेन ॥
अपि च ‘ब्राह्मणो न हन्तव्यः’ इति चैवमाद्या निवृत्तिः उपदिश्यते । न च सा क्रिया । नापि क्रियासाधनम् । अक्रियार्थानाम् उपदेशः अनर्थकश्चेत् , ‘ब्राह्मणो न हन्तव्यः’ इत्यादिनिवृत्त्युपदेशानाम् आनर्थक्यं प्राप्तम् । तच्च अनिष्टम् । न च स्वभावप्राप्त-हन्त्यर्थानुरागेण नञः शक्यम् अप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण । नञश्च एष स्वभावः, यत् स्वसम्बन्धिनः अभावं बोधयतीति । अभावबुद्धिश्च औदासीन्यकारणम् । सा च दग्धेन्धनाग्निवत् स्वयमेव उपशाम्यति । तस्मात् प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ‘ब्राह्मणो न हन्तव्यः’ इत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यः । तस्मात् पुरुषार्थ-अनुपयोगि-उपाख्यानादि-भूतार्थवादविषयम् आनर्थक्याभिधानं द्रष्टव्यम् ॥
यदप्युक्तम् — कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रम् उच्यमानम् अनर्थकं स्यात् ‘सप्तद्वीपा वसुमती’ इत्यादिवत् इति, तत्परिहृतम् ; ‘रज्जुरियम् , नायं सर्पः’ इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात् (इति)। ननु श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनात् न रज्जुस्वरूपकथनवत् अर्थवत्त्वम् इत्युक्तम् । अत्रोच्यते — न अवगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् , वेदप्रमाणजनित-ब्रह्मात्मभावविरोधात् । न हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति, तस्यैव वेदप्रमाणजनित-ब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् । न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति । न च कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलित्वाभिमाननिमित्तं सुखं भवति । तदुक्तं श्रुत्या — ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति ॥
शरीरे पतिते अशरीरत्वं स्यात् , न जीवतः इति चेत् , न ; सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् । न हि आत्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम् । नित्यम् अशरीरत्वम् अकर्मनिमित्तत्वात् इत्यवोचाम । तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् , न ; शरीरसम्बन्धस्य असिद्धत्वात् धर्माधर्मयोः आत्मकृतत्व-असिद्धेः, शरीरसम्बन्धस्य धर्माधर्मयोः तत्कृतत्वस्य च इतरेतराश्रयत्वप्रसङ्गात् ; अन्धपरम्परा एषा अनादित्वकल्पना । क्रियासमवाय-अभावाच्च आत्मनः कर्तृत्व-अनुपपत्तेः । संनिधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत् , न ; धनदानाद्युपार्जित-भृत्यसम्बन्धित्वात्, तेषां कर्तृत्वोपपत्तेः ; न तु आत्मनो धनदानादिवत् शरीरादिभिः स्वस्वामिभावसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् । मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुः । एतेन यजमानत्वम् आत्मनो व्याख्यातम् ॥
अत्राहुः — देहादिव्यतिरिक्तस्य आत्मनः आत्मीये देहादौ अहमभिमानो गौणः, न मिथ्या इति चेत् , न ; प्रसिद्धवस्तुभेदस्य गौणत्व-मुख्यत्वप्रसिद्धेः । यस्य हि प्रसिद्धो वस्तुभेदः — यथा केसरादिमान् आकृतिविशेषः अन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाक् मुख्यः अन्यः प्रसिद्धः, ततश्च अन्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः सम्पन्नः सिद्धः, तस्य तस्मिन् पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतः ; न अप्रसिद्धवस्तुभेदस्य । तस्य तु अन्यत्र अन्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, न गौणौ ; यथा मन्दान्धकारे स्थाणुरयम् इति अगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथा वा शुक्तिकायाम् अकस्मात् रजतमिदम् इति निश्चितौ शब्दप्रत्ययौ तद्वत् देहादिसङ्घाते अहम् इति निरुपचारेण शब्दप्रत्ययौ आत्मानात्म-अविवेकेनः उत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् । आत्मानात्मविवेकिनामपि पण्डितानाम् अजाविपालानामिव अविविक्तौ शब्दप्रत्ययौ भवतः । तस्मात् देहादिव्यतिरिक्त-आत्मास्तित्ववादिनां देहादौ अहंप्रत्ययो मिथ्या एव, न गौणः ॥
तस्मात् मिथ्याप्रत्ययनिमित्तत्वात् सशरीरत्वस्य, सिद्धं जीवतोऽपि विदुषः अशरीरत्वम् । तथा च ब्रह्मविद्विषया श्रुतिः — ‘तद्यथा अहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत एवमेव इदं शरीरं शेते, अथ अयम् अशरीरः अमृतः प्राणो ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति ; ‘सचक्षुः अचक्षुरिव, सकर्णः अकर्ण इव, सवाक् अवागिव समना अमना इव सप्राणः अप्राण इव’ इति च । स्मृतिरपि — ‘स्थितप्रज्ञस्य का भाषा’ (भ. गी. २ । ५४) इत्याद्या स्थितप्रज्ञस्य लक्षणानि आचक्षाणा (स्मृतिः) विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयति । तस्मात् न अवगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् । यस्य तु यथापूर्वं संसारित्वं नासौ अवगतब्रह्मात्मभावः इत्यनवद्यम् ॥
यत्पुनरुक्तं श्रवणात्पराचीनयोः मनननिदिध्यासनयोर्दर्शनात् विधिशेषत्वं ब्रह्मणः, न स्वरूपपर्यवसायित्वम् इति, तन्न ; श्रवणवत् अवगत्यर्थत्वात् मनननिदिध्यासनयोः । यदि हि अवगतं ब्रह्म अन्यत्र विनियुज्येत, भवेत् तदा विधिशेषत्वम् ; न तु तदस्ति, मनन-निदिध्यासनयोरपि श्रवणवत् अवगत्यर्थत्वात् ॥
तस्मात् न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयात् इति सिद्धम् । एवं च सति ‘अथातो ब्रह्मजिज्ञासा’ इति तद्विषयः पृथक्शास्त्रारम्भ उपपद्यते । प्रतिपत्तिविधिपरत्वे हि ‘अथातो धर्मजिज्ञासा’ इत्येव आरब्धत्वात् न पृथक्शास्त्रम् आरभ्येत ; आरभ्यमाणं च एवम् आरभ्येत — अथातः परिशिष्टधर्मजिज्ञासा इति, ‘अथातः क्रत्वर्थपुरुषार्थयोः जिज्ञासा’ (जै. सू. ४ । ११) इतिवत् । ब्रह्मात्मैक्यावगतिस्तु अप्रतिज्ञाता इति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो ब्रह्मजिज्ञासा’ इति ॥
तस्मात् अहं ब्रह्मास्मि इत्येतदवसाना एव सर्वे विधयः सर्वाणि च इतराणि प्रमाणानि । न हि अहेय-अनुपादेय-अद्वैतात्मावगतौ सत्याम्, निर्विषयाणि अप्रमातृकाणि च प्रमाणानि भवितुमर्हन्ति इति । अपि च आहुः —
गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात् ।
सद्ब्रह्मात्माहत्येवं बोधे कार्यं कथं भवेत् ॥
अन्वेष्टव्यात्मविज्ञानात् प्राक्प्रमातृत्वमात्मनः ।
अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ॥
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात् ॥ इति ॥४॥
© 2023 KKP APP. All rights reserved | Design by SMDS