भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथोच्येत — अचेतनेऽपि प्रधाने भवति आत्मशब्दः, आत्मनः सर्वार्थकारित्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवति आत्मशब्दः ‘ममात्मा भद्रसेनः’ इति । प्रधानं हि पुरुषस्य आत्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धिविग्रहादिषु वर्तमानः । अथवा एक एवात्मशब्दः चेतनाचेतनविषयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्मा’ इति च प्रयोगदर्शनात्; यथा एक एव ज्योतिःशब्दः क्रतुज्वलनविषयः । तत्र कुत एतत् आत्मशब्दात् ईक्षतेः अगौणत्वम् इत्यत उत्तरं पठति —

ओं तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥

न प्रधानम् अचेतनम् आत्मशब्दालम्बनं भवितुमर्हति ; ‘स आत्मा’ इति प्रकृतं सत् अणिमानमादाय, ‘तत्त्वमसि श्वेतकेतो’ इति चेतनस्य श्वेतकेतोः मोक्षयितव्यस्य तन्निष्ठाम् उपदिश्य, ‘आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात् । यदि हि अचेतनं प्रधानं सच्छब्दवाच्यम् ‘तत् असि’ इति ग्राहयेत् , मुमुक्षुं चेतनं सन्तम् अचेतनोऽसि इति, तदा विपरीतवादि शास्त्रं पुरुषस्य अनर्थाय इति अप्रमाणं स्यात् । न तु निर्दोषं शास्त्रम् अप्रमाणं कल्पयितुं युक्तम् । यदि च अज्ञस्य सतः मुमुक्षोः अचेतनम् अनात्मानम् आत्मा इत्युपदिशेत् प्रमाणभूतं शास्त्रम् , स श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत्, तद्व्यतिरिक्तं च आत्मानं न प्रतिपद्येत; तथा सति पुरुषार्थात् विहन्येत, अनर्थं च ऋच्छेत् । तस्मात् यथा स्वर्गाद्यर्थिनः अग्निहोत्रादिसाधनं यथाभूतम् उपदिशति, तथा मुमुक्षोरपि ‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति यथाभूतमेव आत्मानमुपदिशति इति युक्तम् । एवं च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते । अन्यथा हि अमुख्ये सदात्मतत्त्वोपदेशे, ‘अहम् उक्थमस्मीति विद्यात्’ (ऐ. आ. २ । १ । २ । ६) इतिवत् सम्पन्मात्रम् इदम् अनित्यफलं स्यात् ; तत्र मोक्षोपदेशो नोपपद्येत । तस्मात् न सदणिमनि आत्मशब्दस्य गौणत्वम् । भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वात् उपपन्नो गौण आत्मशब्दः ‘ममात्मा भद्रसेनः’ इति । अपि च क्वचिद्गौणः शब्दो दृष्टः इति न एतावता शब्दप्रमाणके अर्थे गौणीकल्पना न्याय्या, सर्वत्र अनाश्वासप्रसङ्गात् । यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः, क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्न; अनेकार्थत्वस्यान्याय्यत्वात् । तस्मात् चेतनविषय एव मुख्य आत्मशब्दः चेतनत्वोपचारात् भूतादिषु प्रयुज्यते — ‘भूतात्मा’ ‘इन्द्रियात्मा’ इति च । साधारणत्वेऽपि आत्मशब्दस्य न प्रकरणम् उपपदं वा किञ्चिन्निश्चायकमन्तरेण अन्यतरवृत्तिता निर्धारयितुं शक्यते । न च अत्र अचेतनस्य निश्चायकं किञ्चित्कारणमस्ति । प्रकृतं तु सत् ईक्षितृ सन्निहितश्च चेतनः श्वेतकेतुः । न हि चेतनस्य श्वेतकेतोः अचेतन आत्मा सम्भवतीत्यवोचाम । तस्मात् चेतनविषय इह् आत्मशब्दः इति निश्चीयते । ज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलने एव रूढः, अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्तः इति अदृष्टान्तः । अथवा पूर्वसूत्रे एव आत्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वाशङ्कतया व्याख्याय, ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुः व्याख्येयः — ‘तन्निष्ठस्य मोक्षोपदेशात्’ इति । तस्मात् न अचेतनं प्रधानं सच्छब्दवाच्यम् ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS