भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

कुतश्च न प्रधानं सच्छब्दवाच्यम् ? —

ओं स्वाप्ययात् ॥९॥

तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते — ‘यत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति ; स्वमपीतो भवति ; तस्मादेनं स्वपितीत्याचक्षते ; स्वं हि अपीतो भवति’ (छा. उ. ६ । ८ । १) इति । एषा श्रुतिः स्वपिति इत्येतत् पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति । स्वशब्देन इह आत्मा उच्यते । यः प्रकृतः सच्छब्दवाच्यः तम् अपीतो भवति अपिगतो भवतीत्यर्थः । अपिपूर्वस्य एतेः लयार्थत्वं प्रसिद्धम्, प्रभवाप्ययौ इति उत्पत्तिप्रलययोः प्रयोगदर्शनात् । मनःप्रचारोपाधिविशेषसम्बन्धात् इन्द्रियार्थान् गृह्णन् तद्विशेषापन्नो जीवो जागर्ति; तद्वासनाविशिष्टः स्वप्नान्पश्यन् मनःशब्दवाच्यो भवति; स उपाधिद्वयोपरमे सुषुप्तावस्थायाम् उपाधिकृतविशेषाभावात् स्वात्मनि प्रलीन इव इति ‘स्वं हि अपीतो भवति’ (छा. उ. ६ । ८ । १) इत्युच्यते । यथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम् — ‘स वा एष आत्मा हृदि, तस्यैतदेव निरुक्तम् — हृद्ययमिति ; तस्मात् हृदयमिति’ (छा. उ. ८ । ३ । ३); यथा वा अशनाय उदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः — ‘आप एव तदशितं नयन्ते’ (छा. उ. ६ । ८ । ३) ‘तेज एव तत्पीतं नयते’ (छा. उ. ६ । ८ । ५) इति च ; एवं स्वमात्मानं सच्छब्दवाच्यम् अपीतो भवति इति इममर्थं स्वपितिनामनिर्वचनेन दर्शयति । न च चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत । यदि पुनः प्रधानमेव आत्मीयत्वात् स्वशब्देनैव उच्येत, एवमपि चेतनः अचेतनम् अप्येतीति विरुद्धमापद्येत । श्रुत्यन्तरं च — ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयति । अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं, न प्रधानम् ॥ ९ ॥

© 2023 KKP APP. All rights reserved | Design by SMDS