भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम् ? —

ओं श्रुतत्वाच्च ॥११॥

स्वशब्देनैव च सर्वज्ञः ईश्वरो जगतः कारणमिति श्रूयते, श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञम् ईश्वरं प्रकृत्य — ‘स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’ (श्वे. उ. ६ । ९) इति । तस्मात्सर्वज्ञं ब्रह्म जगतः कारणम् , न अचेतनं प्रधानम् अन्यद्वा इति सिद्धम् ॥११॥

इति श्रीमच्छङ्करभग्वतः कृतौ शरीरकमीमांसाभाष्ये अधिकरणपञ्चकम्

© 2023 KKP APP. All rights reserved | Design by SMDS