अथ शास्त्रयोनित्वाधिकरणम्
जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्म इत्युपक्षिप्तम् , तदेव द्रढयन् आह —
ओं शास्त्रयोनित्वात् ॥३॥
महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत् सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हि ईदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात् पुरुषविशेषात् सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, स ततोऽपि अधिकतरविज्ञानः इति प्रसिद्धं लोके । किमु वक्तव्यम् — अनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो भूतात् योनेः सम्भवः — ‘अस्य महतो भूतस्य निःश्वसितमेतत् यदृग्वेदः’ (बृ. उ. २ । ४ । १०) इत्यादिश्रुतेः — तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ॥
अथवा यथोक्तम् ऋग्वेदादिशास्त्रं योनिः कारणं प्रमाणम् अस्य ब्रह्मणो यथावत्स्वरूपाधिगमे । शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्म अधिगम्यत इत्यभिप्रायः । शास्त्रमुदाहृतं पूर्वसूत्रे — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यादि । किमर्थं तर्हि इदं सूत्रम् , यावता पूर्वसूत्रेणैव एवंजातीयकं शास्त्रम् उदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् । उच्यते — तत्र सूत्राक्षरेण स्पष्टं शास्त्रस्य अनुपादानात् जन्मादिसूत्रेण केवलम् अनुमानमुपन्यस्तम् इत्याशङ्क्येत ; ताम् आशङ्कां निवर्तयितुम् इदं सूत्रं प्रववृते — ‘शास्त्रयोनित्वात्’ इति ॥३॥
© 2023 KKP APP. All rights reserved | Design by SMDS