भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ब्रह्म जिज्ञासितव्यम् इत्युक्तम् । किंलक्षणं पुनस्तद्ब्रह्मेति अत आह भगवान् सूत्रकारः

ओं जन्माद्यस्य यतः ॥२॥

जन्म उत्पत्तिः आदिः अस्य — इति तद्गुणसंविज्ञानो बहुव्रीहिः । जन्म-स्थिति-भङ्गं समासार्थः । जन्मनश्च आदित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च । श्रुतिनिर्देशस्तावत् — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् । वस्तुवृत्तमपि — जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात् ॥

’अस्य’ इति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशः । षष्ठी जन्मादि-धर्मसम्बन्धार्था ॥

’यतः’ इति कारणनिर्देशः । अस्य जगतः नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियत-देश-काल-निमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद्भवति, तद्ब्रह्म इति वाक्यशेषः ॥

अन्येषामपि भावविकाराणां त्रिष्वेव अन्तर्भाव इति जन्मस्थितिनाशानाम् इह ग्रहणम् । यास्कपरिपठितानां तु ‘जायते अस्ति’ इत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भाव्यमानत्वात् मूलकारणात् उत्पत्तिस्थितिनाशाः जगतो न गृहीताः स्युः इत्याशङ्क्येत ; तन्मा शङ्कि ; इति या उत्पत्तिः ब्रह्मणः , तत्रैव स्थितिः प्रलयश्च, त एव गृह्यन्ते ॥

न च यथोक्तविशेषणस्य जगतो यथोक्तविशेषणम् ईश्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् । न च स्वभावतः, विशिष्टदेशकालनिमित्तानाम् इह उपादानात् ॥

एतदेव अनुमानं संसारिव्यतिरिक्त-ईश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः ॥

ननु इहापि तदेव उपन्यस्तं जन्मादिसूत्रे ; न ; वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणाम् । वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते । वाक्यार्थविचारण-अध्यवसाननिर्वृत्ता हि ब्रह्मावगतिः, न अनुमानादिप्रमाणान्तरनिर्वृत्ता ॥

सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु , तदर्थग्रहणदार्ढ्याय अनुमानमपि वेदान्तवाक्य-अविरोधि प्रमाणं भवत् , न निवार्यते, श्रुत्यैव च सहायत्वेन तर्कस्य अभ्युपेतत्वात् । तथा हि — ‘श्रोतव्यो मन्तव्यः’ (बृ. उ. २ । ४ । ५) इति श्रुतिः ‘पण्डितो मेधावी गन्धारानेवोपसम्पद्येत एवमेव इह अचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) इति च पुरुषबुद्धिसाहाय्यम् आत्मनो दर्शयति । न धर्मजिज्ञासायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम् । किन्तु श्रुत्यादयः अनुभवादयश्च यथासम्भवमिह प्रमाणम् , अनुभवावसानत्वात् भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य । कर्तव्ये हि विषये न अनुभवापेक्षा अस्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात् , पुरुषाधीन-आत्मलाभत्वाच्च कर्तव्यस्य । कर्तुम् अकर्तुम् अन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म ; यथा अश्वेन गच्छति, पद्भ्याम् , अन्यथा वा, न वा गच्छतीति । तथा ‘अतिरात्रे षोडशिनं गृह्णाति’, ’नातिरात्रे षोडशिनं गृह्णाति’ ‘उदिते जुहोति, अनुदिते जुहोति’ इति । विधिप्रतिषेधाश्च अत्र अर्थवन्तः स्युः, विकल्प-उत्सर्ग-अपवादाश्च । न तु वस्तु ‘एवम् , नैवम्’ ‘अस्ति, नास्ति’ इति वा विकल्प्यते । विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः । न वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम् । किं तर्हि ? वस्तुतन्त्रमेव तत् । न हि स्थाणावेकस्मिन् ‘स्थाणुर्वा, पुरुषः अन्यो वा’ इति तत्त्वज्ञानं भवति । तत्र ‘पुरुषः अन्यो वा’ इति मिथ्याज्ञानम् । ‘स्थाणुरेव’ इति तत्त्वज्ञानम् , वस्तुतन्त्रत्वात् । एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् । तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तुविषयत्वात् ॥

ननु भूतवस्तुविषयत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेव इति वेदान्तवाक्यविचारणा अनर्थिका एव प्राप्ता ; न ; इन्द्रिय-अविषयत्वेन सम्बन्ध-अग्रहणात् । स्वभावतो विषयविषयाणि इन्द्रियाणि, न ब्रह्मविषयाणि । सति हि इन्द्रियविषयत्वे ब्रह्मणः, इदं ब्रह्मणा सम्बद्धं कार्यमिति गृह्येत । कार्यमात्रमेव तु गृह्यमाणम् — किं ब्रह्मणा सम्बद्धम् ? किमन्येन केनचिद्वा सम्बद्धम् ? — इति न शक्यं निश्चेतुम् । तस्माज्जन्मादिसूत्रं न अनुमानोपन्यासार्थम् । किं तर्हि ? वेदान्तवाक्यप्रदर्शनार्थम् ॥

किं पुनस्तद्वेदान्तवाक्यं यत् सूत्रेण इह लिलक्षयिषितम् ? ‘भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति’ (तै. उ. ३ । १ । १) इत्युपक्रम्य आह — ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । ’ (तै. उ. ३ । १ । १) तस्य च निर्णयवाक्यम् — ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्ति’ (तै. उ. ३ । ६ । १) इति । अन्यान्यपि एवंजातीयकानि वाक्यानि नित्यशुद्ध-बुद्ध-मुक्तस्वभाव-सर्वज्ञस्वरूपकारणविषयाणि उदाहर्तव्यानि ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS