भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ ईक्षत्यधिकरणम्

एवं तावत् वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानाम् अन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानम् उक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणम् इत्युक्तम् । साङ्ख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराणि अनुमिमानाः तत्परतया एव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेषु अनुमानेनैव कार्येण कारणं लिलक्षयिषितम् । प्रधानपुरुषसंयोगाः नित्यानुमेयाः इति साङ्ख्या मन्यन्ते । काणादास्तु एतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणम् अनुमिमते, अणूंश्च समवायिकारणम् । एवम् अन्येऽपि तार्किकाः वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिनः इह उत्तिष्ठन्ते । तत्र पदवाक्यप्रमाणज्ञेन आचार्येण वेदान्तवाक्यानां ब्रह्मात्मावगतिपरत्वप्रदर्शनाय वाक्याभास-युक्त्याभासविप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ॥ तत्र साङ्ख्याः प्रधानं त्रिगुणम् अचेतनं स्वतन्त्रं जगतः कारणमिति मन्यमाना आहुः — यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेः ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्ति इत्यवोचः, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते । सर्वशक्तित्वं तावत् प्रधानस्यापि स्वविकारविषयमुपपद्यते । एवं सर्वज्ञत्वमपि उपपद्यते ; कथम् ? यत् त्वं ज्ञानं मन्यसे, स सत्त्वधर्मः, ‘सत्त्वात्संजायते ज्ञानम्’ (भ. गी. १४ । १७) इति स्मृतेः । तेन च सत्त्वधर्मेण ज्ञानेन कार्यकरणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः । सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् । न केवलस्य अकार्यकरणस्य पुरुषस्य उपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् । त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यते इति प्रधानस्य अचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषु । अवश्यं च त्वयापि सर्वज्ञं ब्रह्म इत्यभ्युपगच्छता सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वम् अभ्युपगन्तव्यम् । न हि सर्वदा सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते । तथाहि — ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत ; अथ अनित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म, तदा सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमापतति । अपि च प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्म इष्यते त्वया । न च ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचित् उपपन्ना । अपि च प्रधानस्य अनेकात्मकस्य परिणामसम्भवात् कारणत्वोपपत्तिः मृदादिवत्, न असंहतस्य एकात्मकस्य ब्रह्मणः ; — इत्येवं प्राप्ते, इदं सूत्रम् आरभ्यते —

ओम् ईक्षतेर्नाशब्दम् ॥५॥

न साङ्ख्यपरिकल्पितम् अचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेषु आश्रयितुम् । अशब्दं हि तत् । कथम् अशब्दत्वम् ? ईक्षतेः ईक्षितृत्वश्रवणात् कारणस्य । कथम् ? एवं हि श्रूयते — ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य ‘तदैक्षत बहु स्यां प्राजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति । तत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मना अवधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्य ईक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति । तथान्यत्र — ‘आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति ।’ (ऐ. उ. १ । १ । १)‘स इमाँल्लोकानसृजत’ (ऐ. उ. १ । १ । २) इति ईक्षापूर्विकामेव सृष्टिमाचष्टे । क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह — ‘स ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३), ‘स प्राणमसृजत’ (प्र. उ. ६ । ४) इति । ईक्षतेरिति च धात्वर्थनिर्देशः अभिप्रेतः; यजतेः इतिवत् न धातुनिर्देशः । तेन ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’ (मु. उ. १ । १ । ९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यानि उदाहर्तव्यानि ॥

यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । न हि प्रधानावस्थायां गुणसाम्यात् सत्त्वधर्मो ज्ञानं सम्भवति । ननु उक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति; तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञम् उच्येत । अपि च न असाक्षिका सत्त्ववृत्तिः जानातिना अभिधीयते । न च अचेतनस्य प्रधानस्य साक्षित्वमस्ति । तस्मात् अनुपपन्नं प्रधानस्य सर्वज्ञत्वम् । योगिनां तु चेतनत्वात् सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वम् उपपन्नम् इति अनुदाहरणम् । अथ पुनः साक्षिनिमित्तम् ईक्षितृत्वं प्रधानस्यापि कल्प्येत, यथा अग्निनिमित्तम् अयःपिण्डादेः दग्धृत्वम् ; तथा सति यन्निमित्तम् ईक्षितृत्वं प्रधानस्य, तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वम् उपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्य-असम्भवादिति ; अत्रोच्यते — इदं तावत् भवान् प्रष्टव्यः — कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिः इति । यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति, सः असर्वज्ञः इति विप्रतिषिद्धम् । अनित्यत्वे हि ज्ञानस्य, कदाचिज्जानाति कदाचिन्न जानाति इति असर्वज्ञत्वमपि स्यात् ॥

नासौ ज्ञाननित्यत्वे दोषोऽस्ति । ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यते इति चेत् , न ; प्रततौष्ण्यप्रकाशेऽपि सवितरि ‘दहति’ ‘प्रकाशयति’ इति स्वातन्त्र्यव्यपदेशदर्शनात् । ननु सवितुः दाह्यप्रकाश्यसंयोगे सति ‘दहति’ ‘प्रकाशयति’ इति व्यपदेशः स्यात्; न तु ब्रह्मणः प्रागुत्पत्तेः ज्ञानकर्मसंयोगः अस्तीति विषमो दृष्टान्तः । न; असत्यपि कर्मणि ‘सविता प्रकाशते’ इति कर्तृत्वव्यपदेशदर्शनात् , एवम् असत्यपि ज्ञानकर्मणि ब्रह्मणः ‘तदैक्षत’ इति कर्तृत्वव्यपदेशोपपत्तेः न वैषम्यम् । कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्वश्रुतयः सुतराम् उपपन्नाः । किं पुनस्तत्कर्म, यत्प्रागुत्पत्तेः ईश्वरज्ञानस्य विषयो भवति इति — तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः । यत्प्रसादाद्धि योगिनामपि अतीत-अनागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्य ईश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवति इति । यदप्युक्तं प्रागुत्पत्तेः ब्रह्मणः शरीरादिसम्बन्धमन्तरेण ईक्षितृत्वम् अनुपपन्नम् इति, न तच्चोद्यम् अवतरति; सवितृप्रकाशवत् ब्रह्मणो ज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेः । अपि च अविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात्; न ज्ञानप्रतिबन्धकारणरहितस्य ईश्वरस्य । मन्त्रौ च इमौ ईश्वरस्य शरीराद्यनपेक्षताम् अनावरणज्ञानतां च दर्शयतः — ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ (श्वे. उ. ६ । ८) इति । ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति च । ननु नास्ति तव ज्ञानप्रतिबन्धकारणवान् ईश्वरादन्यः संसारी — ‘नान्योऽतोऽस्ति द्रष्टा ... नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः ; तत्र किमिदमुच्यते — संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः, न ईश्वरस्य इति ? अत्रोच्यते — सत्यं न ईश्वरादन्यः संसारी ; तथापि देहादिसङ्घातोपाधिसम्बन्धः इष्यत एव, घट-करक-गिरि-गुहाद्युपाधिसम्बन्ध इव व्योम्नः ; तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः — ‘घटच्छिद्रम्’ ‘करकच्छिद्रम्’ इत्यादिः, आकाश-अव्यतिरेकेऽपि ; तत्कृता च आकाशे घटाकाशादिभेदमिथ्याबुद्धिः दृष्टा; तथा इहापि देहादिसङ्घातोपाधिसम्बन्ध-अविवेककृत-ईश्वरसंसारिभेदमिथ्याबुद्धिः । दृश्यते च आत्मन एव सतो देहादिसङ्घाते अनात्मनि आत्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वपूर्वेण । सति च एवं संसारित्वे देहाद्यपेक्षम् ईक्षितृत्वम् उपपन्नं संसारिणः । यदप्युक्तं प्रधानस्य अनेकात्मकत्वात् मृदादिवत् कारणत्वोपपत्तिः न असंहतस्य ब्रह्मण इति, तत् प्रधानस्य अशब्दत्वेनैव प्रत्युक्तम् । यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते, न प्रधानादीनाम् , तथा प्रपञ्चयिष्यति ‘न विलक्षणत्वादस्य ...’ (ब्र. सू. २ । १ । ४) इत्येवमादिना ॥ ५ ॥

© 2023 KKP APP. All rights reserved | Design by SMDS