भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अत्राह — यदुक्तं न अचेतनं प्रधानं जगत्कारणम् ईक्षितृत्वश्रवणादिति, तत् अन्यथापि उपपद्यते; अचेतनेऽपि चेतनवत् उपचारदर्शनात् । यथा प्रत्यासन्नपतनतां नद्याः कूलस्य आलक्ष्य ‘कूलं पिपतिषति’ इति अचेतनेऽपि कूले चेतनवत् उपचारो दृष्टः, तद्वत् अचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवत् उपचारो भविष्यति ‘तदैक्षत’ इति । यथा लोके कश्चिच्चेतनः ‘स्नात्वा भुक्त्वा च अपराह्णे ग्रामं रथेन गमिष्यामि’ इति ईक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते ; तस्मात् चेतनवदुपचर्यते । कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं तत्कल्प्यते ? ‘तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ‘ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति च अचेतनयोरपि अप्तेजसोः चेतनवदुपचारदर्शनात्; तस्मात् सत्कर्तृकमपि ईक्षणम् औपचारिकमिति गम्यते, उपचारप्राये वचनात् ; — इत्येवं प्राप्ते, इदं सूत्रमारभ्यते—

ओं गौणश्चेन्नात्मशब्दात् ॥६॥

यदुक्तं प्रधानम् अचेतनं सच्छब्दवाच्यं तस्मिन् औपचारिकम् ईक्षितृत्वम् अप्तेजसोरिव इति, तदसत् । कस्मात् ? आत्मशब्दात् ; ‘सदेव सोम्येदमग्र आसीत्’ इत्युपक्रम्य, ‘तदैक्षत’ (छा. उ. ६ । २ । ३) ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति च तेजोबन्नानां सृष्टिम् उक्त्वा, तदेव प्रकृतं सत् ईक्षितृ, तानि च तेजोबन्नानि देवताशब्देन परामृश्य आह — ‘सेयं देवता ऐक्षत’ ‘हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति । तत्र यदि प्रधानम् अचेतनं गुणवृत्त्या ईक्षितृ कल्प्येत, तदेव प्रकृतत्वात् ‘सेयं देवता’ इति परामृश्येत ; न तदा देवता जीवम् आत्मशब्देन अभिदध्यात् । जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेः निर्वचनाच्च । स कथम् अचेतनस्य प्रधानस्य आत्मा भवेत् । आत्मा हि नाम स्वरूपम् । न अचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति । अथ तु चेतनं ब्रह्म मुख्यम् ईक्षितृ परिगृह्येत, तस्य जीवविषयः आत्मशब्दप्रयोगः उपपद्यते । तथा ‘स य एषोऽणिमा ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । १४ । ३) इत्यत्र ‘स आत्मा’ इति प्रकृतं सत् अणिमानम् आत्मानम् आत्मशब्देन उपदिश्य, ‘तत्त्वमसि श्वेतकेतो’ इति चेतनस्य श्वेतकेतोः आत्मत्वेन उपदिशति । अप्तेजसोऽस्तु विषयत्वात् अचेतनत्वम् , नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात्, न च आत्मशब्दवत् किञ्चिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवत् गौणत्वम् ईक्षितृत्वस्य । तयोरपि सदधिष्ठितत्वापेक्षमेव ईक्षितृत्वम् । सतस्तु आत्मशब्दात् न गौणम् ईक्षितृत्वम् इत्युक्तम् ॥ ६ ॥

© 2023 KKP APP. All rights reserved | Design by SMDS