कुतश्च न प्रधानं जगतः कारणम् ? —
ओं गतिसामान्यात् ॥१०॥
यदि तार्किकसमये इव वेदान्तेष्वपि भिन्ना कारणावगतिः अभविष्यत्, क्वचित् चेतनं ब्रह्म जगतः कारणम् , क्वचित् अचेतनं प्रधानम् , क्वचित् अन्यदेव इति; ततः कदाचित् प्रधानकारणवाद-अनुरोधेनापि ईक्षत्यादिश्रवणम् अकल्पयिष्यत् । न तु एतदस्ति । समाना एव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः । ‘यथा आग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन् एवमेव एतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इति, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति, ‘आत्मतः एव इदं सर्वम्’ (छा. उ. ७ । २६ । १) इति, ‘आत्मन एष प्राणो जायते’ (प्र. उ. ३ । ३) इति च आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः । आत्मशब्दश्च चेतनवचनः इत्यवोचाम । महच्च प्रामाण्यकारणमेतत्, यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वम्, चक्षुरादीनामिव रूपादिषु । अतः गतिसामान्यात् सर्वज्ञं ब्रह्म जगतः कारणम् ॥१०॥
© 2023 KKP APP. All rights reserved | Design by SMDS