भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीये अविरोधाध्याये प्रथमः पादः

१. स्मृत्यधिकरणम्

स्मृत्यनवकाशदोषप्रसङ्ग इति

चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥१॥

इतरेषां चानुपलब्धेः ॥२॥

२. योगप्रत्युक्त्यधिकरणम्

एतेन योगः प्रत्युक्तः ॥३॥

३. विलक्षणत्वाधिकरणम्

न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥४॥

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥५॥

दृश्यते तु ॥६॥

असदिति चेन्न प्रतिषेधमात्रत्वात् ॥७॥

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥८॥

न तु दृष्टान्तभावात् ॥९॥

स्वपक्षदोषाच्च ॥१०॥

तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति

चेदेवमप्यविमोक्षप्रसङ्गः ॥११॥

४. शिष्टापरिग्रहाधिकरणम्

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥१२॥

५. भोक्त्रापत्त्यधिकरणम्

भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥१३॥

६. आरम्भणाधिकरणम्

तदनन्यत्वमारम्भणशब्दादिभ्यः ॥१४॥

भावे चोपलब्धेः ॥१५॥

सत्त्वाच्चावरस्य ॥१६॥

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥१७॥

युक्तेः शब्दान्तराच्च ॥१८॥

पटवच्च ॥१९॥

यथा च प्राणादि ॥२०॥

७. इतरव्यपदेशाधिकरणम्

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥२१॥

अधिकं तु भेदनिर्देशात् ॥२२॥

अश्मादिवच्च तदनुपपत्तिः ॥२३॥

८. उपसंहारदर्शनाधिकरणम्

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥२४॥

देवादिवदपि लोके ॥२५॥

९. कृत्स्नप्रसक्त्यधिकरणम्

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥२६॥

श्रुतेस्तु शब्दमूलत्वात् ॥२७॥

आत्मनि चैवं विचित्राश्च हि ॥२८॥

स्वपक्षदोषाच्च ॥२९॥

१०. सर्वोपेताधिकरणम्

सर्वोपेता च तद्दर्शनात् ॥३०॥

विकरणत्वान्नेति चेत्तदुक्तम् ॥३१॥

११. प्रयोजनवत्त्वाधिकरणम्

न प्रयोजनवत्त्वात् ॥३२॥

लोकवत्तु लीलाकैवल्यम् ॥३३॥

१२. वैषम्यनैर्घृण्याधिकरणम्

वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥३४॥

न कर्माविभागादिति चेन्नानादित्वात् ॥३५॥

उपपद्यते चाप्युपलभ्यते च ॥३६॥

१३. सर्वधर्मोपपत्त्यधिकरणम्

सर्वधर्मोपपत्तेश्च ॥३७॥

इति श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीयाध्याये प्रथमः पादः

अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीयाध्याये द्वितीयः पादः

१.रचनानुपपत्त्यधिकरणम्

रचनानुपपत्तेश्च नानुमानम् ॥१॥

प्रवृत्तेश्च ॥२॥

पयोम्बुवच्चेत्तत्रापि ॥३॥

व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥४॥

अन्यत्राभावाच्च न तृणादिवत् ॥५॥

अभ्युपगमेऽप्यर्थाभावात् ॥६॥

पुरुषाश्मवदिति चेत्तथापि ॥७॥

अङ्गित्वानुपपत्तेश्च ॥८॥

अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥९॥

विप्रतिषेधाच्चासमञ्जसम् ॥१०॥

२. महद्दीर्घाधिकरणम्

महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥११॥

३. परमाणुजगदकारणत्वाधिकरणम्

उभयथापि न कर्मातस्तदभावः ॥१२॥

समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥१३॥

नित्यमेव च भावात् ॥१४॥

रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥१५॥

उभयथा च दोषात् ॥१६॥

अपरिग्रहाच्चात्यन्तमनपेक्षा ॥१७॥

४. समुदायाधिकरणम्

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥१८॥

इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥१९॥

उत्तरोत्पादे च पूर्वनिरोधात् ॥२०॥

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥२१॥

प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥२२॥

उभयथा च दोषात् ॥२३॥

आकाशे चाविशेषात् ॥२४॥

अनुस्मृतेश्च ॥ २५ ॥

नासतोऽदृष्टत्वात् ॥२६॥

उदासीनानामपि चैवं सिद्धिः ॥२७॥

५. अभावाधिकरणम्

नाभाव उपलब्धेः ॥२८॥

वैधर्म्याच्च न स्वप्नादिवत् ॥२९॥

न भावोऽनुपलब्धेः ॥३०॥

क्षणिकत्वाच्च ॥३१॥

सर्वथानुपपत्तेश्च ॥३२॥

६. एकस्मिन्नसम्भवाधिकरणम्

नैकस्मिन्नसम्भवात् ॥३३॥

एवं चात्माकार्त्स्न्यम् ॥३४॥

न च पर्यायादप्यविरोधो विकारादिभ्यः ॥३५॥

अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥३६॥

७. पत्यधिकरणम्

पत्युरसामञ्जस्यात् ॥३७॥

सम्बन्धानुपपत्तेश्च ॥३८॥

अधिष्ठानानुपपत्तेश्च ॥३९॥

करणवच्चेन्न भोगादिभ्यः ॥४०॥

अन्तवत्त्वमसर्वज्ञता वा ॥४१॥

८. उत्पत्त्यसम्भवाधिकरणम्

उत्पत्त्यसम्भवात् ॥४२॥

न च कर्तुः करणम् ॥४३॥

विज्ञानादिभावे वा तदप्रतिषेधः ॥४४॥

विप्रतिषेधाच्च ॥४५॥

इति श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीयाध्याये द्वितीयः पादः

अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीयाध्याये तृतीयः पादः

१. वियदधिकरणम्

न वियदश्रुतेः ॥१॥

अस्ति तु ॥२॥

गौण्यसम्भवात् ॥३॥

शब्दाच्च ॥४॥

स्याच्चैकस्य ब्रह्मशब्दवत् ॥५॥

प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥६॥

यावद्विकारं तु विभागो लोकवत् ॥७॥

२. मातरिश्वाधिकरणम्

एतेन मातरिश्वा व्याख्यातः ॥८॥

३. असम्भवाधिकरणम्

असम्भवस्तु सतोऽनुपपत्तेः ॥९॥

४. तेजोऽधिकरणम्

तेजोऽतस्तथाह्याह ॥१०॥

५. अबधिकरणम्

आपः ॥११॥

६. पृथिव्यधिकाराधिकरणम्

पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥१२॥

७. तदभिध्यानाधिकरणम्

तदभिध्यानादेव तु तल्लिङ्गात्सः ॥१३॥

८. विपर्ययाधिकरणम्

विपर्ययेण तु क्रमोऽत उपपद्यते च ॥१४॥

९. अन्तराविज्ञानाधिकरणम्

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥१५॥

१०. चराचरव्यपाश्रयाधिकरणम्

चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥१६॥

११. आत्माधिकरणम्

नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥१७॥

१२. ज्ञाधिकरणम्

ज्ञोऽत एव ॥१८॥

१३. उत्क्रान्तिगत्यधिकरणम्

उत्क्रान्तिगत्यागतीनाम् ॥१९॥

स्वात्मना चोत्तरयोः ॥२०॥

नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥२१॥

स्वशब्दोन्मानाभ्यां च ॥२२॥

अविरोधश्चन्दनवत् ॥२३॥

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥२४॥

गुणाद्वा लोकवत् ॥२५॥

व्यतिरेको गन्धवत् ॥२६॥

तथा च दर्शयति ॥२७॥

पृथगुपदेशात् ॥२८॥

तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥२९॥

यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥३०॥

पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥३१॥

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥३२॥

१४. कर्त्रधिकरणम्

कर्ता शास्त्रार्थवत्त्वात् ॥३३॥

विहारोपदेशात् ॥३४॥

उपादानात् ॥३५॥

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥३६॥

उपलब्धिवदनियमः ॥३७॥

शक्तिविपर्ययात् ॥३८॥

समाध्यभावाच्च ॥३९॥

१५. तक्षाधिकरणम्

यथा च तक्षोभयथा ॥४०॥

१६. परायत्ताधिकरणम्

परात्तु तच्छ्रुतेः ॥४१॥

कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥४२॥

१७. अंशाधिकरणम्

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥४३॥

मन्त्रवर्णाच्च ॥४४॥

अपि च स्मर्यते ॥४५॥

प्रकाशादिवन्नैवं परः ॥४६॥

स्मरन्ति च ॥४७॥

अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥४८॥

असन्ततेश्चाव्यतिकरः ॥४९॥

आभास एव च ॥५०॥

अदृष्टानियमात् ॥५१॥

अभिसन्ध्यादिष्वपि चैवम् ॥५२॥

प्रदेशादिति चेन्नान्तर्भावात् ॥५३॥

इति श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीयाध्याये तृतीयः पादः

अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीयाध्याये चतुर्थः पादः

१. प्राणोत्पत्त्यधिकरणम्

तथा प्राणाः ॥१॥

गौण्यसम्भवात् ॥२॥

तत्प्राक्श्रुतेश्च ॥३॥

तत्पूर्वकत्वाद्वाचः ॥४॥

२. सप्तगत्यधिकरणम्

सप्त गतेर्विशेषितत्वाच्च ॥५॥

हस्तादयस्तु स्थितेऽतो नैवम् ॥६॥

३. प्राणाणुत्वाधिकरणम्

अणवश्च ॥ ७॥

४. प्राणश्रैष्ठ्याधिकरणम्

श्रेष्ठश्च ॥८॥

५. वायुक्रियाधिकरणम्

न वायुक्रिये पृथगुपदेशात् ॥९॥

चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥१०॥

अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥११॥

पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥१२॥

६. श्रेष्ठाणुत्वाधिकरणम्

अणुश्च ॥१३॥

७. ज्योतिराद्यधिकरणम्

ज्योतिराद्यधिष्ठानं तु तदामननात् ॥१४॥

प्राणवता शब्दात् ॥१५॥

तस्य च नित्यत्वात् ॥१६॥

८. इन्द्रियाधिकरणम्

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥१७॥

भेदश्रुतेः ॥१८॥

वैलक्षण्याच्च ॥१९॥

९. संज्ञामूर्तिकॢप्त्यधिकरणम्

संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥२०॥

मांसादि भौमं यथाशब्दमितरयोश्च ॥२१॥

वैशेष्यात्तु तद्वादस्तद्वादः ॥२२॥

इति श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीयाध्याये चतुर्थः पादः
इति श्रीबादरायणीय-वेदान्तसूत्रपाठे द्वितीयः अविरोधाध्यायः

© 2023 KKP APP. All rights reserved | Design by SMDS