अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थे फलाध्याये प्रथमः पादः
१. आवृत्त्यधिकरणम्
आवृत्तिरसकृदुपदेशात् ॥१॥
लिङ्गाच्च ॥२॥
२. आत्मत्वोपासनाधिकरणम्
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥
३. प्रतीकाधिकरणम्
न प्रतीके न हि सः ॥४॥
४. ब्रह्मदृष्ट्यधिकरणम्
ब्रह्मदृष्टिरुत्कर्षात् ॥५॥
५. आदित्यादिमत्यधिकरणम्
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
६. आसीनाधिकरणम्
आसीनः सम्भवात् ॥७॥
ध्यानाच्च ॥८॥
अचलत्वं चापेक्ष्य ॥९॥
स्मरन्ति च ॥१०॥
७. एकाग्रताधिकरणम्
यत्रैकाग्रता तत्राविशेषात् ॥११॥
८. आप्रायणाधिकरणम्
आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
९. तदधिगमाधिकरणम्
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥१३॥
१०. इतरासंश्लेषाधिकरणम्
इतरस्याप्येवमसंश्लेषः पाते तु ॥१४॥
११. अनारब्धाधिकरणम्
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥१५॥
१२. अग्निहोत्राद्यधिकरणम्
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥१६॥
अतोऽन्यापि ह्येकेषामुभयोः ॥१७॥
१३. विद्याज्ञानसाधनत्वाधिकरणम्
यदेव विद्ययेति हि ॥१८॥
१४. इतरक्षपणाधिकरणम्
भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥
इति श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थाध्याये प्रथमः पादः
अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थाध्याये द्वितीयः पादः
१. वागधिकरणम्
वाङ्मनसि दर्शनाच्छब्दाच्च ॥१॥
अत एव च सर्वाण्यनु ॥२॥
२. मनोऽधिकरणम्
तन्मनः प्राण उत्तरात् ॥३॥
३. अध्यक्षाधिकरणम्
सोऽध्यक्षे तदुपगमादिभ्यः ॥४॥
भूतेषु तच्छ्रुतेः ॥५॥
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
४. आसृत्युपक्रमाधिकरणम्
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥७॥
५. संसारव्यपदेशाधिकरणम्
तदाऽपीतेः संसारव्यपदेशात् ॥८॥
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥९॥
नोपमर्देनातः ॥१०॥
अस्यैव चोपपत्तेरेष ऊष्मा ॥११॥
६. प्रतिषेधाधिकरणम्
प्रतिषेधादिति चेन्न शारीरात् ॥१२॥
स्पष्टो ह्येकेषाम् ॥१३॥
स्मर्यते च ॥१४॥
७. वागादिलयाधिकरणम्
तानि परे तथा ह्याह ॥१५॥
८. अविभागाधिकरणम्
अविभागो वचनात् ॥१६॥
९. तदोकोऽधिकरणम्
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो
विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च
हार्दानुगृहीतः शताधिकया ॥१७॥
१०. रश्म्यधिकरणम्
रश्म्यनुसारी ॥१८॥
निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥१९॥
११. दक्षिणायनाधिकरणम्
अतश्चायनेऽपि दक्षिणे ॥२०॥
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥२१॥
इति श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थाध्याये द्वितीयः पादः
अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थाध्याये तृतीयः पादः
१. अर्चिराद्यधिकरणम्
अर्चिरादिना तत्प्रथितेः ॥१॥
२. वाय्वधिकरणम्
वायुमब्दादविशेषविशेषाभ्याम् ॥२॥
३. तडिदधिकरणम्
तडितोऽधि वरुणः सम्बन्धात् ॥३॥
४. आतिवाहिकाधिकरणम्
आतिवाहिकास्तल्लिङ्गात् ॥४॥
उभयव्यामोहात्तत्सिद्धेः ॥५॥
वैद्युतेनैव ततस्तच्छ्रुतेः ॥६॥
५. कार्याधिकरणम्
कार्यं बादरिरस्य गत्युपपत्तेः ॥७॥
विशेषितत्वाच्च ॥८॥
सामीप्यात्तु तद्व्यपदेशः ॥९॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥१०॥
स्मृतेश्च ॥११॥
परं जैमिनिर्मुख्यत्वात् ॥१२॥
दर्शनाच्च ॥१३॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥१४॥
६. अप्रतीकालम्बनाधिकरणम्
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥१५॥
विशेषं च दर्शयति ॥१६॥
इति श्रीइति श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थाध्याये तृतीयः पादः
अथ श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थाध्याये चतुर्थः पादः
१. सम्पद्याविर्भावाधिकरणम्
सम्पद्याविर्भावः स्वेनशब्दात् ॥१॥
मुक्तः प्रतिज्ञानात् ॥२॥
आत्मा प्रकरणात् ॥३॥
२. अविभागेन दृष्टत्वाधिकरणम्
अविभागेन दृष्टत्वात् ॥४॥
३. ब्राह्माधिकरणम्
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥५॥
चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥६॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥७॥
४. सङ्कल्पाधिकरणम्
सङ्कल्पादेव तु तच्छ्रुतेः ॥८॥
अत एव चानन्याधिपतिः ॥९॥
५. अभावाधिकरणम्
अभावं बादरिराह ह्येवम् ॥१०॥
भावं जैमिनिर्विकल्पामननात् ॥११॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥१२॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥१३॥
भावे जाग्रद्वत् ॥१४॥
६. प्रदीपाधिकरणम्
प्रदीपवदावेशस्तथा हि दर्शयति ॥१५॥
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥१६॥
७. जगद्व्यापाराधिकरणम्
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥१७॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥१८॥
विकारावर्ति च तथा हि स्थितिमाह ॥१९॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ॥२०॥
भोगमात्रसाम्यलिङ्गाच्च ॥२१॥
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥२२॥
इति श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थाध्याये चतुर्थः पादः
इति श्रीबादरायणीय-वेदान्तसूत्रपाठे चतुर्थः फलाध्यायः
इति श्रीबादरायणीय-वेदान्तसूत्रपाठः
ओम् शान्तिः शान्तिः शान्तिः
© 2023 KKP APP. All rights reserved | Design by SMDS