श्रीगुरुभ्यो नमः हरिः ओम्
ओम् नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
अथ श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमाम्साभाष्ये प्रथमे
समन्वयाध्याये प्रथमे पादे प्रथमं जिज्ञासाधिकरणम्
ओम् अथातो ब्रह्मजिज्ञासा ॥१॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते ; न अधिकारार्थः, ब्रह्मजिज्ञासायाः अनधिकार्यत्वात् ; मङ्गलस्य च वाक्यार्थे समन्वयाभावात् ; अर्थान्तरप्रयुक्त एव हि अथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ; पूर्वप्रकृतापेक्षायाश्च फलतः आनन्तर्य- अव्यतिरेकात् । सति च आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेन अपेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेन अपेक्षते तद्वक्तव्यम् । स्वाध्यायानन्तर्यं तु समानम् ॥
ननु इह कर्मावबोधानन्तर्यं विशेषः ; न ; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । यथा च हृदयाद्यवदानानाम् आनन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , न तथा इह क्रमो विवक्षितः ; शेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात् । धर्मब्रह्मजिज्ञासयोः फल-जिज्ञास्यभेदाच्च । अभ्युदयफलं धर्मज्ञानम् , तच्च अनुष्ठानापेक्षम् ; निःश्रेयसफलं तु ब्रह्मज्ञानम् , न च अनुष्ठानान्तरापेक्षम् ; भव्यश्च धर्मो जिज्ञास्यः न ज्ञानकाले अस्ति, पुरुषव्यापारतन्त्रत्वात् ; इह तु भूतं ब्रह्म जिज्ञास्यं, नित्यत्वात् न पुरुषव्यापारतन्त्रम् । चोदनाप्रवृत्तिभेदाच्च । या हि चोदना धर्मस्य लक्षणम् , सा स्वविषये नियुञ्जानैव पुरुषम् अवबोधयति । ब्रह्मचोदना तु, पुरुषम् अवबोधयत्येव केवलम् , अवबोधस्य चोदनाजन्यत्वात् , न पुरुषः अवबोधे नियुज्यते — यथा अक्षार्थसंनिकर्षेण अर्थावबोधे, तद्वत् । तस्मात् किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यत इति ॥
उच्यते — नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं च । तेषु हि सत्सु , प्रागपि धर्मजिज्ञासायाः ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च ; न विपर्यये । तस्मात् अथशब्देन यथोक्त-साधनसम्पत्त्यानन्तर्यम् उपदिश्यते ॥
अतःशब्दः हेत्वर्थः । यस्मात् वेद एव अग्निहोत्रादीनां श्रेयःसाधनानाम् अनित्यफलतां दर्शयति — ‘तद्यथा इह कर्मजितो लोकः क्षीयते एवमेव अमुत्र पुण्यजितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इत्यादिः ; तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयति — ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिः ; तस्मात् यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्म च वक्ष्यमाणलक्षणम् ‘जन्माद्यस्य यतः’ इति । अतएव न ब्रह्मशब्दस्य जात्यादि अर्थान्तरम् आशङ्कितव्यम् ॥
ब्रह्मणः इति कर्मणि षष्ठी, न शेषे ; जिज्ञास्यापेक्षत्वात् जिज्ञासायाः, जिज्ञास्यान्तर-अनिर्देशाच्च । ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते, सम्बन्धसामान्यस्य विशेषनिष्ठत्वात् ; एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतः व्यर्थः प्रयासः स्यात् । न व्यर्थः, ब्रह्माश्रित-अशेषविचारप्रतिज्ञानार्थत्वात् इति चेत् , न ; प्रधानपरिग्रहे तदपेक्षितानाम् अर्थाक्षिप्तत्वात् । ब्रह्म हि ज्ञानेन आप्तुमिष्टतमत्वात् प्रधानम् । तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति, तानि अर्थाक्षिप्तान्येव इति न पृथक्सूत्रयितव्यानि । यथा ‘राजासौ गच्छति’ इत्युक्ते सपरिवारस्य राज्ञो गमनम् उक्तं भवति, तद्वत् ॥
श्रुत्यनुगमाच्च । ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः ‘तद्विजिज्ञासस्व तद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणिषष्ठीपरिग्रहे सूत्रेण अनुगतं भवति । तस्मात् ब्रह्मणः इति कर्मणि षष्ठी ॥
ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म, फलविषयत्वात् इच्छायाः । ज्ञानेन हि प्रमाणेन अवगन्तुमिष्टं ब्रह्म । ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् । तस्मात् ब्रह्म जिज्ञासितव्यम् ॥
तत्पुनः ब्रह्म प्रसिद्धम् अप्रसिद्धं वा स्यात् ; यदि प्रसिद्धं न जिज्ञासितव्यम् । अथ अप्रसिद्धं नैव शक्यं जिज्ञासितुम् इति । उच्यते — अस्ति तावत् ब्रह्म नित्यशुद्ध-बुद्ध-मुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयः अर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात् । सर्वस्य आत्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः । सर्वो हि आत्मास्तित्वं प्रत्येति, न ‘नाहमस्मि’ इति । यदि हि न आत्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकः ‘नाहमस्मि’ इति प्रतीयात् । आत्मा च ब्रह्म ॥
यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततः ज्ञातमेव इति अजिज्ञास्यत्वं पुनरापन्नम् ; न ; तद्विशेषं प्रति विप्रतिपत्तेः । देहमात्रं चैतन्यविशिष्टम् आत्मा इति प्राकृता जनाः लोकायतिकाश्च प्रतिपन्नाः । इन्द्रियाण्येव चेतनानि आत्मा इत्यपरे । मनः इत्यन्ये । विज्ञानमात्रं क्षणिकमित्येके । शून्यमित्यपरे । अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्ता इत्यपरे । भोक्ता इत्येव केवलं, न कर्ता इत्येके । अस्ति तद्व्यतिरिक्तः ईश्वरः सर्वज्ञः सर्वशक्तिः इति केचित् । आत्मा स भोक्तुरित्यपरे । एवं बहवो विप्रतिपन्नाः युक्तिवाक्यतदाभाससमाश्रयाः सन्तः । तत्र अविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं च इयात् । तस्मात् ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS