ऋग्वेदीया ऐतरेयोपनिषत्
यदेतद्धृदयं मनश्चैतत् । संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिः धृतिः मतिः
मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति ।
सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥२॥
किं पुनः तदेकम् अनेकधा भिन्नं करणमिति, उच्यते । यदुक्तं पुरस्तात् प्रजानां रेतो हृदयं हृदयस्य रेतो मनः मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः, तदेव एतद्धृदयं मनश्च, एकमेव तत् अनेकधा । एतेन अन्तःकरणेन एकेन चक्षुर्भूतेन रूपं पश्यति, श्रोत्रभूतेन शृणोति, घ्राणभूतेन जिघ्रति, वाग्भूतेन वदति, जिह्वाभूतेन रसयति, स्वेनैव विकल्पनारूपेण मनसा सङ्कल्पयति, हृदयरूपेण अध्यवस्यति । तस्मात् सर्वकरणविषयव्यापारकम् एकमिदं करणं सर्वोपलब्ध्यर्थम् उपलब्धुः । तथा च कौषीतकिनाम् ‘प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति’ (कौ. उ. ३ । ६) इत्यादि । वाजसनेयके च — ‘मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि विजानाति’ (बृ. उ. १ । ५ । ३) इत्यादि । तस्मात् हृदयमनोवाच्यस्य सर्वोपलब्धिकरणत्वं प्रसिद्धम् । तदात्मकश्च प्राणः ‘यो वै प्राणः, सा प्रज्ञा या वै प्रज्ञा स प्राणः’ (कौ. उ. ३ । ३) इति हि ब्राह्मणम् । करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ । तस्मात् यत्पद्भ्यां प्रापद्यत, तद्ब्रह्म तदुपलब्धुः उपलब्धिकरणत्वेन गुणभूतत्वात् नैव तद्वस्तु ब्रह्म उपास्य आत्मा भवितुमर्हति । पारिशेष्यात् यस्य उपलब्धुः उपलब्ध्यर्था एतस्य हृदयमनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः, स उपलब्धा उपास्य आत्मा नः अस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः ॥
तदन्तःकरणोपाधिस्थस्य उपलब्धुः प्रज्ञानरूपस्य ब्रह्मणः उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषयाः, ता इमा उच्यन्ते — संज्ञानं संज्ञप्तिः चेतनभावः ; आज्ञानम् आज्ञप्तिः ईश्वरभावः ; विज्ञानं कलादिपरिज्ञानम् ; प्रज्ञानं प्रज्ञप्तिः प्रज्ञता ; मेधा ग्रन्थधारणसामर्थ्यम् ; दृष्टिः इन्द्रियद्वारा सर्वविषयोपलब्धिः ; धृतिः धारणम् अवसन्नानां शरीरेन्द्रियाणां यया उत्तम्भनं भवति ; ‘धृत्या शरीरम् उद्वहन्ति’ इति हि वदन्ति ; मतिः मननम् ; मनीषा तत्र स्वातन्त्र्यम् ; जूतिः चेतसो रुजादिदुःखित्वभावः ; स्मृतिः स्मरणम् ; सङ्कल्पः शुक्लकृष्णादिभावेन सङ्कल्पनं रूपादीनाम् ; क्रतुः अध्यवसायः ; असुः प्राणनादि-जीवनक्रियानिमित्ता वृत्तिः ; कामः असंनिहितविषयाकाङ्क्षा तृष्णा ; वशः स्त्रीव्यतिकराद्यभिलाषः ; इत्येवमाद्या अन्तःकरणवृत्तयः उपलब्धुः उपलब्ध्यर्थत्वात् शुद्धप्रज्ञानरूपस्य ब्रह्मण उपाधिभूताः तदुपाधिजनितगुणनामधेयानि संज्ञानादीनि सर्वाण्येवैतानि प्रज्ञप्तिमात्रस्य प्रज्ञानस्य नामधेयानि भवन्ति, न स्वतः साक्षात् । तथा च उक्तम् ‘प्राणन्नेव प्राणो नाम भवति’ (बृ. उ. १ । ४ । ७) इत्यादि ॥२॥
© 2023 KKP APP. All rights reserved | Design by SMDS