अथ ऋग्वेदीय ऐतरेयोपनिषच्छाङ्कर भाष्यम्
उपोद्घातः
परिसमाप्तं कर्म सह अपरब्रह्मविषयविज्ञानेन । सा एषा कर्मणो ज्ञानसहितस्य परा गतिः उक्थविज्ञानद्वारेण उपसंहृता । एतत्सत्यं ब्रह्म प्राणाख्यम् । एष एको देवः । एतस्यैव प्राणस्य सर्वे देवा विभूतयः । एतस्य प्राणस्य आत्मभावं गच्छन् देवता अप्येति इत्युक्तम् ॥
सोऽयं देवताप्ययलक्षणः परः पुरुषार्थः । एष मोक्षः । स च अयं यथोक्तेन ज्ञानकर्मसमुच्चयेन साधनेन प्राप्तव्यो नातः परमस्तीति एके प्रतिपन्नाः । तान्निराचिकीर्षुः उत्तरं केवलात्मज्ञानविधानार्थम् ‘आत्मा वा इदम्’ इत्याद्या आह ॥
कथं पुनः अकर्मसम्बन्धि-केवलात्मविज्ञानविधानार्थः उत्तरो ग्रन्थः इति गम्यते ? अन्यार्थ-अनवगमात् । तथा च पूर्वोक्तानां देवतानाम् अग्न्यादीनां संसारित्वं दर्शयिष्यति अशनायादिदोषवत्त्वेन ‘तम् अशनायापिपासाभ्यामन्ववार्जत्’ (ऐ. उ. १ । २ । १) इत्यादिना । अशनायादिमत्सर्वं संसार एव, परस्य तु ब्रह्मणोऽशनायाद्यत्ययश्रुतेः ॥
भवतु एवं केवलात्मज्ञानं मोक्षसाधनम् , न तु अत्र अकर्मी एव अधिक्रियते ; विशेष-अश्रवणात् । अकर्मिण आश्रम्यन्तरस्य इह-अश्रवणात् । कर्म च बृहतीसहस्रलक्षणं प्रस्तुत्य अनन्तरमेव आत्मज्ञानं प्रारभ्यते । तस्मात् कर्मी एव अधिक्रियते ॥
न च कर्म-असम्बन्धि आत्मविज्ञानम् , पूर्ववत् अन्ते उपसंहारात् । यथा कर्मसम्बन्धिनः पुरुषस्य सूर्यात्मनः स्थावरजङ्गमादि-सर्वप्राण्यात्मत्वम् उक्तं ब्राह्मणेन मन्त्रेण च ‘सूर्य आत्मा’ (ऋ. सं. १ । ११५ । १) इत्यादिना, तथैव ‘एष ब्रह्मैष इन्द्रः’ (बृ. उ. ३ । १ । ३) इत्याद्युपक्रम्य सर्वप्राण्यात्मत्वम् । ‘यच्च स्थावरम् , सर्वं तत्प्रज्ञानेत्रम्’ (बृ. उ. ३ । १ । ३) इत्युपसंहरिष्यति । तथा च संहितोपनिषत् — ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते’ (ऐ. आ. ३ । २ । ३ । १२) इत्यादिना कर्मसम्बन्धित्वम् उक्त्वा ‘सर्वेषु भूतेषु एतमेव ब्रह्म इत्याचक्षते’ इत्युपसंहरति । तथा तस्यैव ‘योऽयमशरीरः प्रज्ञात्मा’ इत्युक्तस्य ‘यश्चासावादित्य एकमेव तदिति विद्यात्’ इत्येकत्वमुक्तम् । इहापि ‘कोऽयमात्मा’ (ऐ. उ. ३ । १ । १) इत्युपक्रम्य प्रज्ञात्मत्वमेव ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति दर्शयिष्यति । तस्मात् न अकर्मसम्बन्धि आत्मज्ञानम् ॥
पुनरुक्त्या आनर्थक्यमिति चेत् — ‘प्राणो वा अहमस्मि ऋषे’ इत्यादिब्राह्मणेन ‘सूर्य आत्मा’ इति च मन्त्रेण निर्धारितस्य आत्मनः ‘आत्मा वा इदम्’ इत्यादिब्राह्मणेन ‘कोऽयमात्मा’ (ऐ. उ. ३ । १ । १) इति प्रश्नपूर्वकं पुनर्निर्धारणं पुनरुक्तम् अनर्थकमिति चेत् , न ; तस्यैव धर्मान्तरविशेषनिर्धारणार्थत्वात् न पुनरुक्ततादोषः । कथम् ? तस्यैव कर्मसम्बन्धिनो जगत्सृष्टिस्थितिसंहारादिधर्मविशेषनिर्धारणार्थत्वात् केवलोपास्त्यर्थत्वाद्वा ; अथवा, ’आत्मा’ इत्यादिः परो ग्रन्थसन्दर्भः आत्मनः कर्मिणः कर्मणोऽन्यत्र उपासनाप्राप्तौ कर्मप्रस्तावे अविहितत्वाद्वा केवलोऽपि आत्मा उपास्यः इत्येवमर्थः । भेदाभेदोपास्यत्वाद्वा ‘एक एवात्मा’ कर्मविषये भेददृष्टिभाक् । स एव अकर्मकाले अभेदेनापि उपास्यः इत्येवम् अपुनरुक्तता ॥
‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) इति च वाजिनाम् । न च वर्षशतात् परमायुः मर्त्यानाम् , येन कर्मपरित्यागेन आत्मानमुपासीत । दर्शितं च ‘तावन्ति पुरुषायुषः अह्नां सहस्राणि भवन्ति’ इति । वर्षशतं च आयुः कर्मणा एव व्याप्तम् । दर्शितश्च मन्त्रः ‘कुर्वन्नेवेह कर्माणि’ इत्यादिः ; तथा ‘यावज्जीवमग्निहोत्रं जुहोति’ ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ इत्याद्याश्च ; ‘तं यज्ञपात्रैर्दहन्ति’ इति च । ऋणत्रयश्रुतेश्च । तत्र हि पारिव्राज्यादिशास्त्रम् ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १)(बृ. उ. ४ । ४ । २२) इति आत्मज्ञानस्तुतिपरः अर्थवादः अनधिकृतार्थो वा ॥
न, परमार्थात्मविज्ञाने फल-अदर्शने क्रियानुपपत्तेः — यदुक्तं कर्मिण एव च आत्मज्ञानं कर्मसम्बन्धि च इत्यादि, तन्न ;’ परं हि आप्तकामं सर्वसंसारदोषवर्जितं ब्रह्माहमस्मि’ इति आत्मत्वेन विज्ञाने, कृतेन कर्तव्येन वा प्रयोजनम् आत्मनः अपश्यतः फलादर्शने क्रिया नोपपद्यते ॥
फलादर्शनेऽपि नियुक्तत्वात् करोतीति चेत् , न ; नियोग-अविषय-आत्मदर्शनात् । इष्टयोगम् अनिष्टवियोगं वा आत्मनः प्रयोजनं पश्यन् तदुपायार्थी यो भवति, स नियोगस्य विषयो दृष्टो लोके, न तु तद्विपरीतनियोग-अविषय-ब्रह्मात्मत्वदर्शी । ब्रह्मात्मत्वदर्शी अपि सन् चेत् नियुज्येत, नियोग-अविषयोऽपि सन् न कश्चित् न नियुक्तः इति सर्वं कर्म सर्वेण सर्वदा कर्तव्यं प्राप्नोति । तच्च अनिष्टम् ॥
न च स नियोक्तुं शक्यते केनचित् । आम्नायस्यापि तत्प्रभवत्वात् । न हि स्वविज्ञानोत्थेन वचसा स्वयं नियुज्यते । नापि बहुवित् स्वामी अविवेकिना भृत्येन । आम्नायस्य नित्यत्वे सति स्वातन्त्र्यात् सर्वान्प्रति नियोक्तृत्वसामर्थ्यम् इति चेत् , न ; उक्तदोषात् । तथापि सर्वेण सर्वदा सर्वम् अविशिष्टं कर्म कर्तव्यम् इति उक्तो दोषोऽपि अपरिहार्य एव ॥
तदपि शास्त्रेणैव विधीयत इति चेत् — यथा कर्मकर्तव्यता शास्त्रेण कृता, तथा तदपि आत्मज्ञानं तस्यैव कर्मिणः शास्त्रेण विधीयत इति चेत् , न ; विरुद्धार्थबोधकत्व-अनुपपत्तेः । न हि एकस्मिन् कृत-अकृतसम्बन्धित्वं तद्विपरीतत्वं च बोधयितुं शक्यम् । शीतोष्णत्वमिव अग्नेः । न च इष्टयोगचिकीर्षा आत्मनः अनिष्टवियोगचिकीर्षा च शास्त्रकृता, सर्वप्राणिनां तद्दर्शनात् । शास्त्रकृतं चेत् , तदुभयं गोपालादीनां न दृश्येत, अशास्त्रज्ञत्वात् तेषाम् । यद्धि स्वतः अप्राप्तम् , तत् शास्त्रेण बोधयितव्यम् । तच्चेत् कृतकर्तव्यताविरोधि आत्मज्ञानं शास्त्रेण कृतम् , कथं तद्विरुद्धां कर्तव्यतां पुनरुत्पादयेत् शीततामिव अग्नौ, तम इव च भानौ ?
न बोधयत्येव इति चेत् , न ; ‘स म आत्मेति विद्यात्’ (कौ. उ. ३ । ९) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति च उपसंहारात् । ‘तदात्मानमेवावेत्’ (बृ. उ. १ । ४ । ९) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादिवाक्यानां तत्परत्वात् । उत्पन्नस्य च ब्रह्मात्मविज्ञानस्य अबाध्यमानत्वात् न अनुत्पन्नं भ्रान्तं वा इति शक्यं वक्तुम् ॥
त्यागेऽपि प्रयोजन-अभावस्य तुल्यत्वमिति चेत् ‘नाकृतेनेह कश्चन’ (भ. गी. ३ । १८) इति स्मृतेः — ये आहुः विदित्वा ब्रह्म व्युत्थानमेव कुर्यादिति, तेषामपि एषः समानो दोषः प्रयोजनाभावः इति चेत् , न ; अक्रियामात्रत्वात् व्युत्थानस्य । अविद्यानिमित्तो हि प्रयोजनस्य भावः, न वस्तुधर्मः, सर्वप्राणिनां तद्दर्शनात् , प्रयोजनतृष्णया च प्रेर्यमाणस्य वाङ्मनःकायैः प्रवृत्तिदर्शनात् , ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) इत्यादिना पुत्रवित्तादि पाङ्क्तलक्षणं काम्यमेवेति ‘उभे ह्येते साध्यसाधनलक्षणे एषणे एव’ (बृ. उ. ३ । ५ । १) इति वाजसनेयिब्राह्मणे अवधारणात् । अविद्याकामदोषनिमित्तायाः वाङ्मनःकायप्रवृत्तेः पाङ्क्तलक्षणायाः विदुषः अविद्यादिदोषाभावादनुपपत्तेः क्रियाभावमात्रं व्युत्थानम् , न तु यागादिवदनुष्ठेयरूपं भावात्मकम् । तच्च विद्यावत्पुरुषधर्मः इति न प्रयोजनम् अन्वेष्टव्यम् । न हि तमसि प्रवृत्तस्य उदिते आलोके यद्गर्तपङ्ककण्टकाद्यपतनम् , तत् किम्प्रयोजनमिति प्रश्नार्हम् ॥
व्युत्थानं तर्हि अर्थप्राप्तत्वात् न चोदनार्थ इति । गार्हस्थ्ये चेत् परं ब्रह्मविज्ञानं जातम् , तत्रैवास्तु अकुर्वत आसनं न ततोऽन्यत्र गमनमिति चेत् , न ; कामप्रयुक्तत्वाद्गार्हस्थ्यस्य । ‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) ‘उभे ह्येते एषणे एव’ (बृ. उ. ३ । ५ । १)(बृ. उ. ४ । ४ । २२) इत्यवधारणात् कामनिमित्त-पुत्रवित्तादिसम्बन्ध-नियमाभावमात्रम् ; न हि ततः अन्यत्र गमनं व्युत्थानमुच्यते । अतो न गार्हस्थ्य एव अकुर्वत आसनम् उत्पन्नविद्यस्य । एतेन गुरुशुश्रूषा-तपसोरपि अप्रतिपत्तिः विदुषः सिद्धा ॥
अत्र केचिद्गृहस्थाः भिक्षाटनादिभयात् परिभवाच्च त्रस्यमानाः सूक्ष्मदृष्टितां दर्शयन्त उत्तरमाहुः । भिक्षोरपि भिक्षाटनादिनियमदर्शनात् देहधारणमात्रार्थिनो गृहस्थस्यापि साध्यसाधन-एषण-उभयविनिर्मुक्तस्य देहमात्रधारणार्थम् अशन-आच्छादनमात्रम् उपजीवतो गृह एव अस्तु आसनमिति ; न, स्वगृहविशेषपरिग्रहनियमस्य कामप्रयुक्तत्वात् इति उक्तोत्तरमेतत् । स्वगृहविशेषपरिग्रहाभावे च शरीरधारणमात्रप्रयुक्त-अशनाच्छादनार्थिनः स्वपरिग्रहविशेषभावे अर्थात् भिक्षुकत्वमेव ॥
शरीरधारणार्थायां भिक्षाटनादिप्रवृत्तौ यथा नियमो भिक्षोः शौचादौ च, तथा गृहिणोऽपि विदुषः अकामिनः अस्तु नित्यकर्मसु नियमेन प्रवृत्तिः य़ावज्जीवादिश्रुतिनियुक्तत्वात् प्रत्यवायपरिहाराय इति । एतन्नियोग-अविषयत्वेन विदुषः प्रत्युक्तम् अशक्यनियोज्यत्वाच्चेति । यावज्जीवादिनित्यचोदनानर्थक्यमिति चेत् , न ; अविद्वद्विषयत्वेनार्थवत्त्वात् ॥
यत्तु भिक्षोः शरीरधारणमात्रप्रवृत्तस्य प्रवृत्तेर्नियतत्वम् , तत्प्रवृत्तेः न प्रयोजकम् । आचमनप्रवृत्तस्य पिपासापगमवत् न अन्यप्रयोजनार्थत्वमवगम्यते । न च अग्निहोत्रादीनां तद्वत् अर्थप्राप्तप्रवृत्तिनियतत्वोपपत्तिः । अर्थप्राप्त-प्रवृत्तिनियमोऽपि प्रयोजनाभावे अनुपपन्न एवेति चेत् , न ; तन्नियमस्य पूर्वप्रवृत्तिसिद्धत्वात् तदतिक्रमे यत्नगौरवात् अर्थप्राप्तस्य व्युत्थानस्य पुनर्वचनात् विदुषः मुमुक्षोः कर्तव्यत्वोपपत्तिः ॥
अविदुषापि मुमुक्षुणा पारिव्राज्यं कर्तव्यमेव ; तथा च ‘शान्तो दान्तः’ (बृ. उ. ४ । ४ । २३) इत्यादिवचनं प्रमाणम् । शमदमादीनां च आत्मदर्शनसाधनानाम् अन्याश्रमेषु अनुपपत्तेः । ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्’ (श्वे. उ. ६ । २१) इति च श्वेताश्वतरे विज्ञायते । ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (कैवल्य २) इति च कैवल्यश्रुतिः । ‘ज्ञात्वा नैष्कर्म्यमाचरेत्’ इति च स्मृतेः । ‘ब्रह्माश्रमपदे वसेत्’ इति च ब्रह्मचर्यादिविद्यासाधनानां च साकल्येन अत्याश्रमिषु उपपत्तेः गार्हस्थ्ये असम्भवात् । न च असम्पन्नं साधनं कस्यचिदर्थस्य साधनाय अलम् ॥
यद्विज्ञानोपयोगीनि च गार्हस्थ्याश्रमकर्माणि, तेषां परमफलम् उपसंहृतं देवताप्ययलक्षणं संसारविषयमेव । यदि कर्मिण एव परमात्मविज्ञानम् अभविष्यत् , संसारविषयस्यैव फलस्योपसंहारो नोपापत्स्यत । अङ्गफलं तदिति चेत् ; न, तद्विरोध्यात्मवस्तुविषयत्वात् आत्मविद्यायाः । निराकृतसर्वनामरूपकर्मपरमार्थात्मवस्तुविषयम् आत्मज्ञानम् अमृतत्वसाधनम् । गुणफलसम्बन्धे हि निराकृतसर्वविशेष-आत्मवस्तुविषयत्वं ज्ञानस्य न प्राप्नोति; तच्च अनिष्टम् , ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. २ । ४ । १४) इत्यधिकृत्य क्रियाकारकफलादि-सर्वव्यवहारनिराकरणात् विदुषः ; तद्विपरीतस्य अविदुषः ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) इत्युक्त्वा क्रियाकारकफलरूपस्य संसारस्य दर्शितत्वाच्च वाजसनेयिब्राह्मणे । तथा इहापि देवताप्ययं संसारविषयं यत्फलम् अशनायादिमद्वस्त्वात्मकं तदुपसंहृत्य केवलं सर्वात्मकवस्तुविषयं ज्ञानम् अमृतत्वाय वक्ष्यामीति प्रवर्तते ॥
ऋणप्रतिबन्धश्च अविदुष एव मनुष्यपितृदेवलोकप्राप्तिं प्रति, न विदुषः ; ‘सोऽयं मनुष्यलोकः पुत्रेणैव’ (बृ. उ. १ । ५ । १६) इत्यादिलोकत्रयसाधननियमश्रुतेः । विदुषश्च ऋणप्रतिबन्धाभावो दर्शित आत्मलोकार्थिनः ‘किं प्रजया करिष्यामः’ (बृ. उ. ४ । ४ । २२) इत्यादिना । तथा ‘एतद्ध स्म वै तद्विद्वांस आहुः ऋषयः कावषेयाः’ इत्यादि ‘एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रुः’ (कौ. उ. २ । ५) इति च कौषीतकिनाम् ॥
अविदुषस्तर्हि ऋणानपाकरणे पारिव्राज्यानुपपत्तिरिति चेत् ; न, प्राग्गार्हस्थ्यप्रतिपत्तेः ऋणित्व- असम्भवात् अधिकारानारूढोऽपि ऋणी चेत्स्यात् , सर्वस्य ऋणित्वमिति अनिष्टं प्रसज्येत । प्रतिपन्नगार्हस्थ्यस्यापि ‘गृहाद्वनी भूत्वा प्रव्रजेत् यदि वा इतरथा ब्रह्मचर्यादेव प्रव्रर्जेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इति आत्मदर्शनसाधनोपायत्वेन इष्यत एव पारिव्राज्यम् ॥
यावज्जीवादिश्रुतीनाम् अविद्वदमुमुक्षुविषये कृतार्थता । छान्दोग्ये च केषाञ्चित् द्वादशरात्रम् अग्निहोत्रं हुत्वा तत ऊर्ध्वं परित्यागः श्रूयते ॥
यत्तु अनधिकृतानां पारिव्राज्यमिति, तन्न ; तेषां पृथगेव ‘उत्सन्नाग्निः अनग्निको वा’ इत्यादिश्रवणात् ; सर्वस्मृतिषु च अविशेषेण आश्रमविकल्पः प्रसिद्धः, समुच्चयश्च ॥
यत्तु विदुषः अर्थप्राप्तं व्युत्थानमिति अशास्त्रार्थत्वे, गृहे वने वा तिष्ठतो न विशेष इति, तदसत् । व्युत्थानस्यैव अर्थप्राप्तत्वात् न अन्यत्र अवस्थानं स्यात् । अन्यत्रावस्थानस्य कामकर्मप्रयुक्तत्वं ह्यवोचाम ; तदभावमात्रं व्युत्थानमिति च ॥
यथाकामित्वं तु विदुषः अत्यन्तमप्राप्तम् , अत्यन्तमूढविषयत्वेन अवगमात् । तथा शास्त्रचोदितमपि कर्मात्मविदः अप्राप्तं गुरुभारतया अवगम्यते ; किमुत अत्यन्त-अविवेकनिमित्तं यथाकामित्वम् ? न हि उन्मादतिमिरदृष्ट्युपलब्धं वस्तु तदपगमेऽपि तथैव स्यात् , उन्मादतिमिरदृष्टिनिमित्तत्वादेव तस्य । तस्मात् आत्मविदो व्युत्थानव्यतिरेकेण न यथाकामित्वम् , न च अन्यत्कर्तव्यम् इत्येतत्सिद्धम् ॥
यत्तु ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह’ (ई. उ. ११) इति न विद्यावतो विद्यया सह अविद्यापि वर्तत इत्ययमर्थः ; कस्तर्हि ? एकस्मिन्पुरुषे एते एकदैव न सह सम्बध्येयाताम् इत्यर्थः ; यथा शुक्तिकायां रजतशुक्तिकाज्ञाने एकस्य पुरुषस्य । ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ (क. उ. १ । २ । ४) इति हि काठके । तस्मात् न विद्यायां सत्याम् अविद्यायाः सम्भवोऽस्ति । ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । २) इत्यादिश्रुतेः । तपआदि विद्योत्पत्तिसाधनं गुरूपासनादि च कर्म अविद्यात्मकत्वात् अविद्या उच्यते । तेन विद्यामुत्पाद्य मृत्युं कामम् अतितरति । ततो निष्कामः त्यक्तैषणो ब्रह्मविद्यया अमृतत्वमश्नुत इत्येतमर्थं दर्शनयन्नाह — ‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति ॥
यत्तु पुरुषायुः सर्वं कर्मणैव व्याप्तम् , ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) इति, तत् विद्वद्विषयत्वेन परिहृतम् , इतरथा असम्भवात् । यत्तु वक्ष्यमाणमपि पूर्वोक्ततुल्यत्वात् कर्मणा अविरुद्धम् आत्मज्ञानमिति, तत्सविशेषनिर्विशेषात्मविषयतया प्रत्युक्तम् ; उत्तरत्र व्याख्याने च दर्शयिष्यामः । अतः केवलनिष्क्रियब्रह्मात्मैकत्वविद्याप्रदर्शनार्थम् उत्तरो ग्रन्थः आरभ्यते ॥
© 2023 KKP APP. All rights reserved | Design by SMDS