भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति सा अस्य एतमात्मानम् अत्र गतं भावयति ॥२॥

तत् रेतः यस्यां स्त्रियां सिक्तं सत् तस्याः स्त्रियाः आत्मभूयम् आत्म-अव्यतिरेकतां यथा पितुः एवं गच्छति प्राप्नोति यथा स्वमङ्गं स्तनादि, तथा तद्वदेव । तस्माद्धेतोः एनां मातरं स गर्भो न हिनस्ति पिटकादिवत् । यस्मात् स्तनादि स्वाङ्गवदात्मभूयं गतम् , तस्मात् न हिनस्ति न बाधत इत्यर्थः । सा अन्तर्वत्नी एतम् अस्य भर्तुः आत्मानम् अत्र आत्मन उदरे गतं प्रविष्टं बुद्ध्वा भावयति वर्धयति परिपालयति गर्भविरुद्ध-अशनादिपरिहारम् अनुकूलाशनाद्युपयोगं च कुर्वती ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS