ऋग्वेदीया ऐतरेयोपनिषत्
तमभ्यतपत् तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वाक् वाचोऽग्निर्नासिके निरभिद्येताम् नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येताम् अक्षिभ्यां चक्षुषः चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ् निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानः अपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥४॥
तं पिण्डं पुरुषविधमुद्दिश्य अभ्यतपत् , तदभिध्यानं सङ्कल्पं कृतवानित्यर्थः, ‘यस्य ज्ञानमयं तपः’ (मु. उ. १ । १ । ९) इत्यादिश्रुतेः । तस्य अभितप्तस्य ईश्वरसङ्कल्पेन तपसा अभितप्तस्य पिण्डस्य मुखं निरभिद्यत मुखाकारं सुषिरम् अजायत ; यथा पक्षिणः अण्डं निर्भिद्यते एवम् । तस्माच्च निर्भिण्णात् मुखात् वाक् करणमिन्द्रियं निरवर्तत ; तदधिष्ठाता अग्निः, ततो वाचः, लोकपालः । तथा नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः, प्राणाद्वायुः ; इति सर्वत्र अधिष्ठानं करणं देवता च — त्रयं क्रमेण निर्भिण्णमिति । अक्षिणी, कर्णौ, त्वक् , हृदयम् अन्तःकरणाधिष्ठानम् , मनः अन्तःकरणम् ; नाभिः सर्वप्राणबन्धनस्थानम् । अपानसंयुक्तत्वात् अपान इति पाय्विन्द्रियमुच्यते ; तस्मात् तस्याधिष्ठात्री देवता मृत्युः । यथा अन्यत्र, तथा शिश्नं निरभिद्यत प्रजननेन्द्रियस्थानम् । इन्द्रियं रेतः रेतोविसर्गार्थत्वात् सह रेतसा उच्यते । रेतस आपः इति ॥
इति श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये
प्रथमाध्याये प्रथमः खण्डः
© 2023 KKP APP. All rights reserved | Design by SMDS