भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायम् इतर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥४॥

अस्य पितुः सोऽयं पुत्रात्मा पुण्येभ्यः शास्त्रोक्तेभ्यः कर्मभ्यः कर्मनिष्पादनार्थं प्रतिधीयते पितुः स्थाने पित्रा यत्कर्तव्यं तत्करणाय प्रतिनिधीयत इत्यर्थः । तथा च सम्प्रत्तिविद्यायां वाजसनेयके — ‘पित्रानुशिष्टोऽहं ब्रह्म अहं यज्ञ इत्यादि प्रतिपद्यते’ (बृ. उ. १ । ५ । १७) इति । अथ अनन्तरं पुत्रे निवेश्य आत्मनो भारम् अस्य पुत्रस्य इतरः अयं यः पित्रात्मा कृतकृत्यः, कर्तव्यात् ऋणत्रयात् विमुक्तः कृतकर्तव्य इत्यर्थः, वयोगतः गतवयाः जीर्णः सन् प्रैति म्रियते । सः इतः अस्मात् प्रयन्नेव शरीरं परित्यजन्नेव, तृणजलूकादिवत् , देहान्तरमुपाददानः कर्मचितम् , पुनर्जायते । तदस्य मृत्वा प्रतिपत्तव्यं यत् , तत् तृतीयं जन्म ॥

ननु संसरतः पितुः सकाशात् रेतोरूपेण प्रथमं जन्म ; तस्यैव कुमाररूपेण मातुः द्वितीयं जन्म उक्तम् ; तस्यैव तृतीये जन्मनि वक्तव्ये, प्रयतः तस्य पितुः यज्जन्म, तत्तृतीयमिति कथमुच्यते ? नैष दोषः, पितापुत्रयोः एकात्मत्वस्य विवक्षितत्वात् । सोऽपि पुत्रः स्वपुत्रे भारं निधाय इतः प्रयन्नेव पुनर्जायते यथा पिता । तदन्यत्र उक्तम् इतरत्राप्युक्तमेव भवतीति मन्यते श्रुतिः । पितापुत्रयोः एकात्मत्वात् ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS