भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

स इमांल्लोकानसृजत । अम्भो मरीचीर्मरमापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठा
अन्तरिक्षं मरीचयः । पृथिवी मरो या अधस्तात्ता आपः ॥२॥

एवम् ईक्षित्वा आलोच्य सः आत्मा इमान् लोकान् असृजत सृष्टवान् । यथा इह बुद्धिमान् तक्षादिः एवंप्रकारान् प्रासादादीन्सृजे इति ईक्षित्वा ईक्षानन्तरं प्रासादादीन् सृजति, तद्वत् । ननु, सोपादानः तक्षादिः प्रासादादीन्सृजतीति युक्तम् ; निरुपादानस्तु आत्मा कथं लोकान्सृजतीति ? नैष दोषः । सलिलफेनस्थानीये आत्मभूते नामरूपे अव्याकृते आत्मैकशब्दवाच्ये व्याकृतफेनस्थानीयस्य जगतः उपादानभूते सम्भवतः । तस्मात् आत्मभूतनामरूपोपादानभूतः सन् सर्वज्ञो जगन्निर्मिमीते इति अविरुद्धम् । अथवा, विज्ञानवान् यथा मायावी निरुपादानः आत्मानमेव आत्मान्तरत्वेन आकाशेन गच्छन्तमिव निर्मिमीते, तथा सर्वज्ञो देवः सर्वशक्तिः महामायः आत्मानमेव आत्मान्तरत्वेन जगद्रूपेण निर्मिमीते इति युक्ततरम् । एवं च सति कार्यकारण-उभयासद्वाद्यादिपक्षाश्च न प्रसज्जन्ते, सुनिराकृताश्च भवन्ति ॥

कान् लोकानसृजत इति आह— अम्भो मरीचीर्मरमापः इति । आकाशादिक्रमेण अण्डमुत्पाद्य अम्भःप्रभृतीन् लोकानसृजत । तत्र अम्भःप्रभृतीन् स्वयमेव व्याचष्टे श्रुतिः । अदः तत् अम्भःशब्दवाच्यो लोकः, परेण दिवं द्युलोकात्परेण परस्तात् , सोऽम्भःशब्दवाच्यः, अम्भोभरणात् । द्यौः प्रतिष्ठा आश्रयः तस्य अम्भसो लोकस्य । द्युलोकादधस्तात् अन्तरिक्षं यत् , तत् मरीचयः । एकोऽपि अनेकस्थानभेदत्वात् बहुवचनभाक् — मरीचय इति ; मरीचिभिर्वा रश्मिभिः सम्बन्धात् । पृथिवी मरः — म्रियन्ते अस्मिन् भूतानीति । याः अधस्तात् पृथिव्याः, ताः आपः उच्यन्ते, आप्नोतेः, लोकाः । यद्यपि पञ्चभूतात्मकत्वं लोकानाम् , तथापि अब्बाहुल्यात् अब्नामभिरेव अम्भो मरीचीर्मरमापः इत्युच्यन्ते ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS