भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

स ईक्षत इमे नु लोका लोकपालान्नु सृजा इति ।
सोऽद्भ्य एव पुरुषं समुद्धृत्य अमूर्छयत् ॥३॥

सर्वप्राणिकर्मफलोपादानाधिष्ठानभूतान् चतुरो लोकान्सृष्ट्वा सः ईश्वरः पुनरेव ईक्षत — इमे नु तु अम्भःप्रभृतयः मया सृष्टा लोकाः परिपालयितृवर्जिता विनश्येयुः ; तस्मादेषां रक्षणार्थं लोकपालान् लोकानां पालयितॄन् नु सृजै सृजेऽहम् इति ॥

एवम् ईक्षित्वा सः अद्भ्य एव अप्प्रधानेभ्य एव पञ्चभूतेभ्यः, येभ्योऽम्भःप्रभृतीन् सृष्टवान् , तेभ्य एव इत्यर्थः, पुरुषं पुरुषाकारं शिरःपाण्यादिमन्तं समुद्धृत्य अद्भ्यः समुपादाय, मृत्पिण्डमिव कुलालः पृथिव्याः, अमूर्छयत् मूर्छितवान् , सम्पिण्डितवान् स्वावयवसंयोजनेन इत्यर्थः ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS