भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

स एवं विद्वान् अस्माच्छरीरभेदादूर्ध्व उत्क्रम्य
अमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा
अमृतः समभवत्समभवत् ॥६॥

सः वामदेवः ऋषिः यथोक्तमात्मानम् एवं विद्वान् अस्मात् शरीरभेदात् शरीरस्य अविद्यापरिकल्पितस्य आयसवत् अनिर्भेद्यस्य जननमरणाद्यनेकानर्थशताविष्टशरीरप्रबन्धस्य परमात्मज्ञानामृतोपयोगजनितवीर्यकृतभेदात् शरीरोत्पत्तिबीजाविद्यादिनिमित्तोपमर्दहेतोः शरीरविनाशादित्यर्थः । ऊर्ध्वः परमात्मभूतः सन् अधोभवात्संसारात् उत्क्रम्य ज्ञानावद्योतितामलसर्वात्मभावमापन्नः सन् अमुष्मिन् यथोक्ते अजरे अमरे अमृते अभये सर्वज्ञे अपूर्वे अनपरे अनन्तरे अबाह्ये प्रज्ञानामृतैकरसे स्वर्गे लोके स्वस्मिन्नात्मनि स्वे स्वरूपे अमृतः समभवत् आत्मज्ञानेन पूर्वम् आप्तकामतया जीवन्नेव सर्वान्कामानाप्त्वा इत्यर्थः । द्विर्वचनं सफलस्य सोदाहरणस्य आत्मज्ञानस्य परिसमाप्तिप्रदर्शनार्थम् ॥६॥

इति श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये
द्वितीयोऽध्यायः

© 2023 KKP APP. All rights reserved | Design by SMDS