ऋग्वेदीया ऐतरेयोपनिषत्
स एतेन प्रज्ञेनात्मना अस्माल्लोकादुत्क्रम्य अमुष्मिन्स्वर्गे लोके
सर्वान्कामानाप्त्वा अमृतः समभवत्समभवत् ॥ ४ ॥
स वामदेवः अन्यो वा एवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना, येनैव प्रज्ञेन आत्मना पूर्वे विद्वांसः अमृता अभूवन् तथा अयमपि विद्वान् एतेनैव प्रज्ञेन आत्मना अस्मात् लोकात् उत्क्रम्य इत्यादि व्याख्यातम् । अस्माल्लोकादुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान्कामान् आप्त्वा अमृतः समभवत्समभवत् इति ओमिति ॥४॥
इति श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये
तृतीयोऽध्यायः
ओं वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविरावीर्म एधि वेदस्य
म आणी स्थः श्रुतं मे मा प्रहासीः अनेनाधीतेन अहोरात्रान् सन्दधामि
ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु
अवतु माम् अवतुवक्तारमवतु वक्तारम् ॥
ओं शान्तिः शान्तिः शान्तिः
इति श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्यम्
© 2023 KKP APP. All rights reserved | Design by SMDS