भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

सा भावयित्री भावयितव्या भवति तं स्त्री गर्भं बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधि भावयति । स यत्कुमारं जन्मनोऽग्रेऽधि भावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्या एवं सन्तता हि इमे लोकाः तदस्य द्वितीयं जन्म ॥३॥

सा भावयित्री वर्धयित्री भर्तुरात्मनो गर्भभूतस्य भावयितव्या वर्धयितव्या च भर्त्रा भवति । न हि उपकारप्रत्युपकारमन्तरेण लोके कस्यचित् केनचित् सम्बन्ध उपपद्यते । तं गर्भं स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयति अग्रे प्राग्जन्मनः । सः पिता अग्रे एव पूर्वमेव जातमात्रं कुमारं जन्मनः अधि ऊर्ध्वं जन्मनः जातं कुमारं जातकर्मादिना पिता भावयति । सः पिता यत् यस्मात् कुमारं जन्मनः अधि ऊर्ध्वं अग्रे जातमात्रमेव जातकर्मादिना यद्भावयति, तत् आत्मानमेव भावयति ; पितुः आत्मैव हि पुत्ररूपेण जायते । तथा हि उक्तम् ‘पतिर्जायां प्रविशति’ (हरि. ३ । ७३ । ७१) इत्यादि । तत्किमर्थम् आत्मानं पुत्ररूपेण जनयित्वा भावयतीति ? उच्यते — एषां लोकानां सन्तत्यै अविच्छेदाय इत्यर्थः । विच्छिद्येरन् हि इमे लोकाः पुत्रोत्पादनादि यदि न कुर्युः । एवं पुत्रोत्पादनादिकर्माविच्छेदेनैव सन्तताः प्रबन्धरूपेण वर्तन्ते हि यस्मात् इमे लोकाः, तस्मात् तदविच्छेदाय तत्कर्तव्यम् ; न मोक्षाय इत्यर्थः । तत् अस्य संसारिणः कुमाररूपेण मातुरुदरात् यन्निर्गमनम् , तत् रेतोरूपापेक्षया द्वितीयं जन्म द्वितीयावस्थाभिव्यक्तिः ॥॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS