भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

अथ श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये
द्वितीयोऽध्यायः

यावत् अयमेव यथोक्तम् इमम् आत्मानं न वेत्ति, तावत् अयं बाह्य-अनित्यदृष्टिलक्षणम् उपाधिमात्मत्वेन उपेत्य अविद्यया उपाधिधर्मान् आत्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु स्थानेषु पुनः पुनः आवर्तमानः अविद्याकामकर्मवशात् संसरति । स एवं संसरन् उपात्तदेहेन्द्रियसङ्घातं त्यजति । त्यक्त्वा अन्यमुपादत्ते । पुनः पुनः एवमेव नदीस्रोतोवत् जन्ममरणप्रबन्ध-अविच्छेदेन वर्तमानः काभिरवस्थाभिः वर्तते इत्येतमर्थं दर्शयन्ती आह श्रुतिः वैराग्यहेतोः —

पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद्रेतः तदेतत्सर्वेभ्योऽङ्गेभ्यः तेजः सम्भूतम् आत्मन्येवात्मानं बिभर्ति । तद्यदा स्त्रियां सिञ्चति अथ एनज्जनयति
तदस्य प्रथमं जन्म ॥१॥

अयमेव अविद्याकामकर्माभिमानवान् यज्ञादिकर्म कृत्वा अस्माल्लोकात् धूमादिक्रमेण चन्द्रमसं प्राप्य क्षीणकर्मा वृष्ट्यादिक्रमेण इमं लोकं प्राप्य अन्नभूतः पुरुषाग्नौ हुतः । तस्मिन्पुरुषे ह वै अयं संसारी रसादिक्रमेण आदितः प्रथमतः रेतोरूपेण गर्भो भवतीति एतदाह — यदेतत्पुरुषे रेतः, तेन रूपेण इति । तच्च एतत् रेतः अन्नमयस्य पिण्डस्य सर्वेभ्यः अङ्गेभ्यः अवयवेभ्यो रसादिलक्षणेभ्यः तेजः साररूपं शरीरस्य सम्भूतं परिनिष्पन्नं तत् पुरुषस्य आत्मभूतत्वात् आत्मा, तमात्मानं रेतोरूपेण गर्भीभूतम् आत्मन्येव स्वशरीर एव आत्मानं बिभर्ति धारयति । तत् रेतः स्त्रियां सिञ्चति यदा, यदा यस्मिन्काले भार्या ऋतुमती तस्यां योषाग्नौ स्त्रियां सिञ्चति उपगच्छन् , अथ तदा एनत् एतद्रेतः आत्मनो गर्भरूपं जनयति पिता । तत् अस्य पुरुषस्य स्थानात् निर्गमनं रेतःसेककाले रेतोरूपेण अस्य संसारिणः प्रथमं जन्म प्रथमावस्थाभिव्यक्तिः । तदेतदुक्तं पुरस्तात् ‘असावात्मा अमुमात्मानम्’ इत्यादिना ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS