अथ ऋग्वेदीया ऐतरेयोपनिषत्
अथ प्रथमाध्याये प्रथमः खण्डः
ओं वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविरावीर्म एधि वेदस्य
म आणी स्थः श्रुतं मे मा प्रहासीः अनेनाधीतेन अहोरात्रान् सन्दधामि
ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु
अवतु माम् अवतुवक्तारमवतु वक्तारम् ॥
ओं शान्तिः शान्तिः शान्तिः
आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति ॥१॥
स इमांल्लोकानसृजत । अम्भो मरीचीः मरमापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठा अन्तरिक्षं मरीचयः । पृथिवी मरो या अधस्तात् ता आपः ॥२॥
स ईक्षत इमे नु लोकाः लोकपालान्नु सृजा इति । सोऽद्भ्य एव पुरुषं समुद्धृत्य अमूर्छयत् ॥३॥
तमभ्यतपत् तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वाक् वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येताम् अक्षिभ्यां चक्षुः चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ् निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानः अपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥४॥
इति प्रथमः खण्डः
अथ द्वितीयः खण्डः
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन् तम् अशनायापिपासाभ्याम् अन्ववार्जत् ता एनमब्रुवन् आयतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ॥१॥
ताभ्यो गामानयत् ता अब्रुवन् न वै नोऽयमलमिति । ताभ्योऽश्वमानयत् ता अब्रुवन् न वै नोऽयमलमिति ॥२॥
ताभ्यः पुरुषमानयत् ता अब्रुवन् सु कृतं बतेति पुरुषो वाव सुकृतम् । ता अब्रवीत् यथायतनं प्रविशतेति ॥३॥
अग्निर्वाग्भूत्वा मुखं प्राविशत् वायुः प्राणो भूत्वा नासिके प्राविशत् आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत् दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् चन्द्रमा मनो भूत्वा हृदयं प्राविशत् मृत्युरपानो भूत्वा नाभिं प्राविशत् आपो रेतो भूत्वा शिश्नं प्राविशन् ॥४॥
तमशनायापिपासे अब्रूताम् आवाभ्यामभिप्रजानीहीति । ते अब्रवीत् एतास्वेव वां देवतासु आभजामि एतासु भागिन्यौ करोमीति । तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेव अस्यामशनायापिपासे भवतः ॥५॥
इति द्वितीयखण्डः
अथ तृतीयः खण्डः
स ईक्षत इमे नु लोकाश्च लोकपालाश्च अन्नमेभ्यः सृजा इति ॥१॥
सोऽपोऽभ्यतपत् ताभ्योऽभितप्ताभ्यो मूर्तिरजायत । या वै सा मूर्तिरजायत अन्नं वै तत् ॥२॥
तदेनदभिसृष्टं पराङत्यजिघांसत् तद्वाचाऽजिघृक्षत् तन्नाशक्नोद्वाचा ग्रहीतुम् । स यद्धैनद्वाचा अग्रहैष्यत् अभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥३॥
तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्राणेन ग्रहीतुम् । स यद्धैनत्प्राणेना् अग्रहैष्यत् अभिप्राण्य हैवान्नमत्रप्स्यत् ॥४॥
तच्चक्षुषाऽजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषा अग्रहैष्यत् दृष्ट्वा हैवान्नमत्रप्स्यत् ॥५॥
तच्छ्रोत्रेणाजिघृक्षत् तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम् । स यद्धैनच्छ्रोत्रेण अग्रहैष्यत् श्रुत्वा हैवान्नमत्रप्स्यत् ॥६॥
तत्त्वचाऽजिघृक्षत् तन्नाशक्नोत्त्वचा ग्रहीतुम् । स यद्धैनत्त्वचा अग्रहैष्यत् स्पृष्ट्वा
हैवान्नमत्रप्स्यत् ॥७॥
तन्मनसाऽजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुम् । स यद्धैनन्मनसा अग्रहैष्यत् ध्यात्वा हैवान्नमत्रप्स्यत् ॥८॥
तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुम् । स यद्धैनच्छिश्नेन अग्रहैष्यत् विसृज्य हैवान्नमत्रप्स्यत् ॥९॥
तदपानेनाजिघृक्षत् तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुः अन्नायुर्वा एष यद्वायुः ॥१०॥
स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेन अभ्यपानितं यदि शिश्नेन विसृष्टम् अथ कोऽहमिति ॥११॥
स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वाः तदेतन्नान्दनम् । तस्य त्रय आवसथाः त्रयः स्वप्नाः अयमावसथोऽयमावसथोऽयमावसथ इति ॥१२॥
स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म ततममपश्यत् इदमदर्शमिती३ ॥१३॥
तस्मादिदन्द्रो नाम इदन्द्रो ह वै नाम तमिदन्द्रं सन्तम् इन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥१४॥
इति तृतीयः खण्डः
इति ऋग्वेदीय-ऐतरेयोपनिषदि प्रथमोऽध्यायः
अथ द्वितीयाध्याये प्रथमः खण्डः
ओं पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद्रेतः तदेतत्सर्वेभ्योऽङ्गेभ्यः तेजः सम्भूतम् आत्मन्येवात्मानं बिभर्ति तद्यथा स्त्रियां सिञ्चति अथैनज्जनयति तदस्य प्रथमं जन्म ॥१॥
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति सा अस्य एतमात्मानम् अत्र गतं भावयति ॥२॥
सा भावयित्री भावयितव्या भवति तं स्त्री गर्भं बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रे अधि
भावयति । स यत्कुमारं जन्मनोऽग्रे अधि भावयति आत्मानमेव तद्भावयति एषां लोकानां सन्तत्या एवं सन्तता हीमे लोकाः तदस्य द्वितीयं जन्म ॥३॥
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायम् इतर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥४॥
तदुक्तमृषिणा । गर्भे नु सन्नन्वेषामवेदम् अहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥५॥
स एवं विद्वान् अस्माच्छरीरभेदादूर्ध्व उत्क्रम्य अमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा
अमृतः समभवत्समभवत् ॥६॥
इति ऋग्वेदीय-ऐतरेयोपनिषदि द्वितीयाध्याये प्रथमः खण्डः
अथ तृतीयाध्याये प्रथमः खण्डः
कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥१॥
यदेतद् हृदयं मनश्चैतत् । संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिः मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥२॥
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषि इत्येतानीमानि च क्षुद्रमिश्राणीव । बीजानि इतराणि च इतराणि च अण्डजानि च जारुजानि च स्वेदजानि च उद्भिज्जानि च अश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् । सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥३॥
स एतेन प्रज्ञेनात्मना अस्माल्लोकादुत्क्रम्य अमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा
अमृतः समभवत्समभवत् ॥४॥
इति ऋग्वेदीय-ऐतरेयोपनिषदि तृतीयाध्याये प्रथमः खण्डः
ओं वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविरावीर्म एधि वेदस्य
म आणी स्थः श्रुतं मे मा प्रहासीः अनेनाधीतेन अहोरात्रान् सन्दधामि
ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु
अवतु माम् अवतुवक्तारमवतु वक्तारम् ॥
ओं शान्तिः शान्तिः शान्तिः
इति ऋग्वेदीया ऐतरेयोपनिषत्
© 2023 KKP APP. All rights reserved | Design by SMDS