ऋग्वेदीया ऐतरेयोपनिषत्
अथ श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये तृतीयोऽध्यायः
ब्रह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया पारम्पर्यश्रुत्या अवद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धाम् उपलभमाना मुमुक्षवो ब्राह्मणा अधुनातनाः ब्रह्म जिज्ञासवः अनित्यात् साध्यसाधनलक्षणात् संसारात् आ जीवभावात् व्याविवृत्सवो विचारयन्तः अन्योन्यं पृच्छन्ति । कथम् ? —
कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥१॥
यम् आत्मानम् अयमात्मा इति साक्षात् वयमुपास्महे कः स आत्मा इति ; यं च आत्मानम् अयमात्मेति साक्षादुपासीनो वामदेवः अमृतः समभवत् ; तमेव वयमपि उपास्महे । को नु खलु स आत्मा ? इति । एवं जिज्ञासापूर्वम् अन्योन्यं पृच्छताम् अतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिः अजायत — तम् ‘प्रपदाभ्यां प्रापद्यत ब्रह्म इमं पुरुषम्’ ‘स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत’ एतमेव पुरुषं द्वे ब्रह्मणी इतरेतरप्रातिकूल्येन प्रतिपन्ने — इति । ते च अस्य पिण्डस्य आत्मभूते । तयोरन्यतर आत्मा उपास्यो भवितुमर्हति । योऽत्र उपास्यः, कतरः स आत्मा इति विशेषनिर्धारणार्थं पुनः अन्योन्यं पप्रच्छुः विचारयन्तः ॥
पुनः तेषां विचारयतां विशेषविचारणास्पदविषया मतिः अभूत् । कथम् ? द्वे वस्तुनी अस्मिन्पिण्डे उपलभ्येते — अनेकभेदभिन्नेन करणेन येन उपलभते, यश्चैक उपलभते, करणान्तरोपलब्धिविषयस्मृतिप्रतिसन्धानात् । तत्र न तावत् येन उपलभते, स आत्मा भवितुमर्हति । केन पुनः उपलभत इति, उच्यते — येन वा चक्षुर्भूतेन रूपं पश्यति, येन वा शृणोति श्रोत्रभूतेन शब्दम् , येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौः अश्वः इत्येवमाद्याम् , साध्वसाध्विति च, येन वा जिह्वाभूतेन स्वादु च अस्वादु च विजानातीति ॥
© 2023 KKP APP. All rights reserved | Design by SMDS