भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

एवं संसरन् अवस्थाभिव्यक्तित्रयेण जन्ममरणप्रबन्धारूढः सर्वो लोकः संसारसमुद्रे निपतितः कथञ्चित् यदा श्रुत्युक्तमात्मानं विजानाति यस्यां कस्याञ्चिदवस्थायाम् , तदा एव मुक्तसर्वसंसारबन्धनः कृतकृत्यो भवतीति एतद्वस्तु, तत् ऋषिणा मन्त्रेणापि उक्तम् इत्याह —

तदुक्तमृषिणा । गर्भे नु सन् अन्वेषामवेदम् अहं देवानां जनिमानि विश्वा ।
शतं मा पुर आयसीररक्षन् अधः श्येनो जवसा निरदीयमिति
गर्भ एव एतच्छयानो वामदेव एवमुवाच ॥५॥

गर्भे नु मातुर्गर्भाशय एव सन् , नु इति वितर्के । अनेकजन्मान्तरभावनापरिपाकवशात् एषां देवानां वागग्न्यादीनां जनिमानि जन्मानि विश्वा विश्वानि सर्वाणि अन्ववेदम् अहम् अहो अनुबुद्धवानस्मि इत्यर्थः । शतम् अनेकाः बह्व्यः मा मां पुरः आयसीः आयस्यो लोहमय्यः इव अभेद्यानि शरीराणि इत्यभिप्रायः । अरक्षन् रक्षितवत्यः संसारपाशनिर्गमनात् अधः । अथ श्येन इव जालं भित्त्वा जवसा आत्मज्ञानकृतसामर्थ्येन निरदीयं निर्गतोऽस्मि । अहो गर्भ एव शयानो वामदेवः ऋषिः एवमुवाच एतत् ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS