ऋग्वेदीया ऐतरेयोपनिषत्
आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् ।
स ईक्षत लोकान्नु सृजा इति ॥१॥
आत्मेति । आत्मा आप्नोतेः अत्तेः अततेर्वा परः सर्वज्ञः सर्वशक्तिः अशनायादिसर्वसंसारधर्मवर्जितो नित्यत्यशुद्धबुद्धमुक्तस्वभावः अजः अजरः अमरः अमृतः अभयः अद्वयः । वै । इदं यदुक्तं नामरूपकर्मभेदभिन्नं जगत् आत्मैव एकः अग्रे जगतः सृष्टेः प्राक् आसीत् । किं न इदानीं स एव एकः ? न । कथं तर्हि आसीदित्युच्यते ? यद्यपि इदानीं स एव एकः, तथाप्यस्ति विशेषः । प्रागुत्पत्तेः अव्याकृतनामरूपभेदम् आत्मभूतम् आत्मैकशब्दप्रत्ययगोचरं जगत् इदानीं व्याकृतनामरूपभेदत्वात् अनेकशब्दप्रत्ययगोचरम् आत्मैकशब्दप्रत्ययगोचरं चेति विशेषः । यथा सलिलात्पृथक् फेननामरूपव्याकरणात् प्राक् सलिलैकशब्दप्रत्ययगोचरमेव फेनम् , यदा सलिलात् पृथक् नामरूपभेदेन व्याकृतं भवति, तदा सलिलं फेनं चेति अनेकशब्दप्रत्ययभाक् सलिलमेव इति च एकशब्दप्रत्ययभाक्च फेनं भवति, तद्वत् ॥
न अन्यत्किञ्चन न किञ्चिदपि मिषत् निमिषत् व्यापारवत् इतरद्वा । यथा साङ्ख्यानाम् अनात्मपक्षपाति स्वतन्त्रं प्रधानम् , यथा च काणादानाम् अणवः, न तद्वदिह अन्यदात्मनः किञ्चिदपि वस्तु विद्यते । किं तर्हि ? आत्मैव एकः आसीदित्यभिप्रायः ॥
सः सर्वज्ञस्वाभाव्यात् आत्मा एक एव सन् ईक्षत । ननु प्रागुत्पत्तेः अकार्यकरणत्वात् कथम् ईक्षितवान् ? नायं दोषः, सर्वज्ञस्वाभाव्यात् । तथा च मन्त्रवर्णः — ‘अपाणिपादो जवनो ग्रहीता’ (श्वे. उ. ३ । २९) इत्यादिः । केनाभिप्रायेण इत्याह — लोकान् अम्भःप्रभृतीन् प्राणि-कर्मफलोपभोगस्थानभूतान् नु सृजै सृजेऽहम् इति ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS